Click on words to see what they mean.

वासुदेव उवाच ।भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत ।मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥ १ ॥
प्रातीपः शंतनुस्तात कुलस्यार्थे यथोत्थितः ।तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥ २ ॥
ततः पाण्डुर्नरपतिः सत्यसंधो जितेन्द्रियः ।राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ॥ ३ ॥
ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते ।यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः ॥ ४ ॥
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ।वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ ॥ ५ ॥
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् ।प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ॥ ६ ॥
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् ।अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् ॥ ७ ॥
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च ।चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः ॥ ८ ॥
कोशसंजनने दाने भृत्यानां चान्ववेक्षणे ।भरणे चैव सर्वस्य विदुरः सत्यसंगरः ॥ ९ ॥
संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः ।अवैक्षत महातेजा भीष्मः परपुरंजयः ॥ १० ॥
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः ।अन्वास्यमानः सततं विदुरेण महात्मना ॥ ११ ॥
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि ।संभूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप ॥ १२ ॥
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथंचन ।भीष्मेण दत्तमश्नामि न त्वया राजसत्तम ॥ १३ ॥
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप ।यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ॥ १४ ॥
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन ।सममाचार्यकं तात तव तेषां च मे सदा ॥ १५ ॥
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम ।बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ १६ ॥
एवमुक्ते महाराज द्रोणेनामिततेजसा ।व्याजहार ततो वाक्यं विदुरः सत्यसंगरः ।पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् ॥ १७ ॥
देवव्रत निबोधेदं वचनं मम भाषतः ।प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ॥ १८ ॥
तन्मे विलपमानस्य वचनं समुपेक्षसे ।कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ॥ १९ ॥
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे ।अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः ।अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ॥ २० ॥
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै ।यथा ते न प्रणश्येयुर्महाराज तथा कुरु ॥ २१ ॥
मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते ।चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय ।प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा ॥ २२ ॥
नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् ।अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ।वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥ २३ ॥
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् ।साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् ॥ २४ ॥
प्रसीद राजशार्दूल विनाशो दृश्यते महान् ।पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् ॥ २५ ॥
विररामैवमुक्त्वा तु विदुरो दीनमानसः ।प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥ २६ ॥
ततोऽथ राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशभीता ।दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात् ॥ २७ ॥
ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये ।शृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य ॥ २८ ॥
राज्यं कुरूणामनुपूर्वभोग्यं क्रमागतो नः कुलधर्म एषः ।त्वं पापबुद्धेऽतिनृशंसकर्मन्राज्यं कुरूणामनयाद्विहंसि ॥ २९ ॥
राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी ।एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात् ॥ ३० ॥
राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् ।अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः ॥ ३१ ॥
राज्यं तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये ।राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि ॥ ३२ ॥
यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसंधो मनीषी ।सर्वं तदस्माभिरहत्य धर्मं ग्राह्यं स्वधर्मं परिपालयद्भिः ॥ ३३ ॥
अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपो यद्विदुरस्तथैव ।कार्यं भवेत्तत्सुहृद्भिर्नियुज्य धर्मं पुरस्कृत्य सुदीर्घकालम् ॥ ३४ ॥
न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः ।प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन चैव ॥ ३५ ॥
« »