Click on words to see what they mean.

वैशंपायन उवाच ।आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः ।पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥ १ ॥
संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः ।स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह ॥ २ ॥
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा ।पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति ॥ ३ ॥
संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः ।आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ॥ ४ ॥
युधिष्ठिर उवाच ।त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ॥ ५ ॥
वासुदेव उवाच ।मया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ॥ ६ ॥
युधिष्ठिर उवाच ।तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः ।किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ।आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् ॥ ७ ॥
पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः ।पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम् ॥ ८ ॥
किं च सर्वे नृपतयः सभायां ये समासते ।उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ॥ ९ ॥
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः ।कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ॥ १० ॥
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव ।तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ॥ ११ ॥
यथा च नाभिपद्येत कालस्तात तथा कुरु ।भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ॥ १२ ॥
वासुदेव उवाच ।शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः ।मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ॥ १३ ॥
मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः ।अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥ १४ ॥
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते ।तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ॥ १५ ॥
मम तात पिता राजञ्शंतनुर्लोकविश्रुतः ।तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ॥ १६ ॥
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः ।एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ॥ १७ ॥
न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः ।तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ॥ १८ ॥
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च ।अराजा चोर्ध्वरेताश्च यथा सुविदितं तव ।प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ॥ १९ ॥
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः ।विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः ॥ २० ॥
स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम् ।विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ॥ २१ ॥
तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् ।जित्वा पार्थिवसंघातमपि ते बहुशः श्रुतम् ॥ २२ ॥
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् ।स हि रामभयादेभिर्नागरैर्विप्रवासितः ।दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत ॥ २३ ॥
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः ।तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ॥ २४ ॥
प्रजा ऊचुः ।उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः ।ईतयो नुद भद्रं ते शंतनोः कुलवर्धन ॥ २५ ॥
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः ।अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ॥ २६ ॥
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय ।त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु ॥ २७ ॥
भीष्म उवाच ।प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः ।प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा ॥ २८ ॥
ततः पौरा महाराज माता काली च मे शुभा ।भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः ।मामूचुर्भृशसंतप्ता भव राजेति संततम् ॥ २९ ॥
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति ।स त्वमस्मद्धितार्थं वै राजा भव महामते ॥ ३० ॥
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः ।तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् ।ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ॥ ३१ ॥
ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम् ।नाम्ब शंतनुना जातः कौरवं वंशमुद्वहन् ।प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ॥ ३२ ॥
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय ।अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले ॥ ३३ ॥
एवं तामनुनीयाहं मातरं जनमेव च ।अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् ॥ ३४ ॥
सह मात्रा महाराज प्रसाद्य तमृषिं तदा ।अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः ।त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ॥ ३५ ॥
अन्धः करणहीनेति न वै राजा पिता तव ।राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ॥ ३६ ॥
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः ।मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ॥ ३७ ॥
मयि जीवति राज्यं कः संप्रशासेत्पुमानिह ।मावमंस्था वचो मह्यं शममिच्छामि वः सदा ॥ ३८ ॥
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव ।मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ॥ ३९ ॥
श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम ।नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ॥ ४० ॥
« »