Click on words to see what they mean.

कर्ण उवाच ।असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव ।सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ॥ १ ॥
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः ।निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ॥ २ ॥
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन ।आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ॥ ३ ॥
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः ।कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ॥ ४ ॥
सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् ।राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ॥ ५ ॥
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् ।सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ॥ ६ ॥
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् ।धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ॥ ७ ॥
तथा मामभिजानाति सूतश्चाधिरथः सुतम् ।पितरं चाभिजानामि तमहं सौहृदात्सदा ॥ ८ ॥
स हि मे जातकर्मादि कारयामास माधव ।शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ॥ ९ ॥
नाम मे वसुषेणेति कारयामास वै द्विजैः ।भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ॥ १० ॥
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन ।तासु मे हृदयं कृष्ण संजातं कामबन्धनम् ॥ ११ ॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ॥ १२ ॥
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् ।मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ॥ १३ ॥
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् ।आवाहाश्च विवाहाश्च सह सूतैः कृता मया ॥ १४ ॥
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः ।दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ॥ १५ ॥
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत ।वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ॥ १६ ॥
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन ।अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥ १७ ॥
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना ।अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ॥ १८ ॥
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन ।सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ॥ १९ ॥
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम ।एतदत्र हितं मन्ये सर्वयादवनन्दन ॥ २० ॥
यदि जानाति मां राजा धर्मात्मा संशितव्रतः ।कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥ २१ ॥
प्राप्य चापि महद्राज्यं तदहं मधुसूदन ।स्फीतं दुर्योधनायैव संप्रदद्यामरिंदम ॥ २२ ॥
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः ।नेता यस्य हृषीकेशो योद्धा यस्य धनंजयः ॥ २३ ॥
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः ।नकुलः सहदेवश्च द्रौपदेयाश्च माधव ॥ २४ ॥
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः ।चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ॥ २५ ॥
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा ।इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ॥ २६ ॥
मातुलो भीमसेनस्य सेनजिच्च महारथः ।शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ॥ २७ ॥
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः ।राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ॥ २८ ॥
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति ।अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ।आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ॥ २९ ॥
होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः ।गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ॥ ३० ॥
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव ।मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ॥ ३१ ॥
अनुयातश्च पितरमधिको वा पराक्रमे ।ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ॥ ३२ ॥
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः ।विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ॥ ३३ ॥
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः ।जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ॥ ३४ ॥
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन ।उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ॥ ३५ ॥
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ ।शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ॥ ३६ ॥
कल्माषदण्डा गोविन्द विमला रथशक्तयः ।यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ॥ ३७ ॥
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः ।तोमराः सोमकलशाः पवित्राणि धनूंषि च ॥ ३८ ॥
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च ।हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ॥ ३९ ॥
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः ।सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ ४० ॥
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना ।महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ॥ ४१ ॥
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति ।दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ॥ ४२ ॥
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः ।अतिरात्रे महाबाहो वितते यज्ञकर्मणि ॥ ४३ ॥
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् ।वैताने कर्मणि तते जातो यः कृष्ण पावकात् ॥ ४४ ॥
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् ।प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ॥ ४५ ॥
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना ।पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ॥ ४६ ॥
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः ।आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ॥ ४७ ॥
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः ।तदा यज्ञावसानं तद्भविष्यति जनार्दन ॥ ४८ ॥
दुर्योधनं यदा हन्ता भीमसेनो महाबलः ।तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ॥ ४९ ॥
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य संगताः ।हतेश्वरा हतसुता हतनाथाश्च केशव ॥ ५० ॥
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले ।स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ॥ ५१ ॥
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ ।वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ॥ ५२ ॥
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् ।कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ॥ ५३ ॥
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् ।यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ॥ ५४ ॥
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन ।तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ॥ ५५ ॥
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् ।समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ॥ ५६ ॥
समुपानय कौन्तेयं युद्धाय मम केशव ।मन्त्रसंवरणं कुर्वन्नित्यमेव परंतप ॥ ५७ ॥
« »