Click on words to see what they mean.

कुन्त्युवाच ।अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके ।उपोपविष्टा नारीभिराश्रमे परिवारिता ॥ १ ॥
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा ।सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः ॥ २ ॥
एष जेष्यति संग्रामे कुरून्सर्वान्समागतान् ।भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ॥ ३ ॥
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम् ।हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान् ॥ ४ ॥
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति ।भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ॥ ५ ॥
तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत ।यथाहमेवं जानामि बलवन्तं दुरासदम् ।तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ॥ ६ ॥
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति ।त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ॥ ७ ॥
नाहं तदभ्यसूयामि यथा वागभ्यभाषत ।नमो धर्माय महते धर्मो धारयति प्रजाः ॥ ८ ॥
एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः ।यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥ ९ ॥
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति ।यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ॥ १० ॥
सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः ।ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम् ॥ ११ ॥
युक्तमेतन्महाभागे कुले जाते यशस्विनि ।यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ॥ १२ ॥
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ ।विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥ १३ ॥
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥ १४ ॥
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी ।पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति ॥ १५ ॥
न राज्यहरणं दुःखं द्यूते चापि पराजयः ।प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ॥ १६ ॥
यत्तु सा बृहती श्यामा सभायां रुदती तदा ।अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् ॥ १७ ॥
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा ।नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥ १८ ॥
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ॥ १९ ॥
विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ ।भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥ २० ॥
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता ।दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत ।पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ॥ २१ ॥
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह ।मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ।अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय ॥ २२ ॥
वैशंपायन उवाच ।अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् ।निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ॥ २३ ॥
ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान् ।आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह ॥ २४ ॥
ततः प्रयाते दाशार्हे कुरवः संगता मिथः ।जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ॥ २५ ॥
प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता ।दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ॥ २६ ॥
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः ।मन्त्रयामास च तदा कर्णेन सुचिरं सह ॥ २७ ॥
विसर्जयित्वा राधेयं सर्वयादवनन्दनः ।ततो जवेन महता तूर्णमश्वानचोदयत् ॥ २८ ॥
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः ।हया जग्मुर्महावेगा मनोमारुतरंहसः ॥ २९ ॥
ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः ।उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् ॥ ३० ॥
« »