Click on words to see what they mean.

विदुरोवाच ।अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि ।निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥ १ ॥
यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् ।क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ॥ २ ॥
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च ।नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ॥ ३ ॥
सन्ति वै सिन्धुराजस्य संतुष्टा बहवो जनाः ।दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः ॥ ४ ॥
सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः ।अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ॥ ५ ॥
तैः कृत्वा सह संघातं गिरिदुर्गालयांश्चर ।काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥ ६ ॥
संजयो नामतश्च त्वं न च पश्यामि तत्त्वयि ।अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ॥ ७ ॥
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् ।अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ॥ ८ ॥
तस्य स्मरन्ती वचनमाशंसे विजयं तव ।तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः ॥ ९ ॥
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे ।तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥ १० ॥
समृद्धिरसमृद्धिर्वा पूर्वेषां मम संजय ।एवं विद्वान्युद्धमना भव मा प्रत्युपाहर ॥ ११ ॥
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत् ।यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ १२ ॥
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् ।दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥ १३ ॥
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता ।ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता ॥ १४ ॥
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् ।पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुर्गताम् ॥ १५ ॥
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले ।न तदा जीवितेनार्थो भविता तव संजय ॥ १६ ॥
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् ।अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ॥ १७ ॥
यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा ।श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥ १८ ॥
नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम ।न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥ १९ ॥
वयमाश्रयणीयाः स्म नाश्रितारः परस्य च ।सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥ २० ॥
अपारे भव नः पारमप्लवे भव नः प्लवः ।कुरुष्व स्थानमस्थाने मृतान्संजीवयस्व नः ॥ २१ ॥
सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि ।अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥ २२ ॥
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् ।एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥ २३ ॥
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ।माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ॥ २४ ॥
नाम विश्राव्य वा संख्ये शत्रूनाहूय दंशितान् ।सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् ॥ २५ ॥
यदैव लभते वीरः सुयुद्धेन महद्यशः ।तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥ २६ ॥
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः ।अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः ॥ २७ ॥
राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा ।प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥ २८ ॥
स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम् ।रुद्धमेकायने मत्वा पतोल्मुक इवारिषु ॥ २९ ॥
जहि शत्रून्रणे राजन्स्वधर्ममनुपालय ।मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन ॥ ३० ॥
अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् ।अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् ॥ ३१ ॥
उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा ।मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥ ३२ ॥
युवा रूपेण संपन्नो विद्ययाभिजनेन च ।यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ।वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् ॥ ३३ ॥
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् ।पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे ॥ ३४ ॥
नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः ।न त्वं परस्यानुधुरं तात जीवितुमर्हसि ॥ ३५ ॥
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् ।पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ॥ ३६ ॥
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् ।भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥ ३७ ॥
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् ।अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ॥ ३८ ॥
मातङ्गो मत्त इव च परीयात्सुमहामनाः ।ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च संजय ॥ ३९ ॥
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः ।ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥ ४० ॥
« »