Click on words to see what they mean.

वैशंपायन उवाच ।प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च ।आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ॥ १ ॥
वासुदेव उवाच ।उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् ।ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् ॥ २ ॥
कालपक्वमिदं सर्वं दुर्योधनवशानुगम् ।आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ॥ ३ ॥
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया ।तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव ॥ ४ ॥
कुन्त्युवाच ।ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् ।भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥ ५ ॥
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ॥ ६ ॥
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयंभुवा ।उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता ।क्रूराय कर्मणे नित्यं प्रजानां परिपालने ॥ ७ ॥
शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया ।मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् ।पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् ॥ ८ ॥
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ।ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ॥ ९ ॥
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुंधराम् ।बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥ १० ॥
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ॥ ११ ॥
राजा चरति चेद्धर्मं देवत्वायैव कल्पते ।स चेदधर्मं चरति नरकायैव गच्छति ॥ १२ ॥
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति ।प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ॥ १३ ॥
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते ।तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥ १४ ॥
कालो वा कारणं राज्ञो राजा वा कालकारणम् ।इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥ १५ ॥
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च ।युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ १६ ॥
कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते ।त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते ।प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ॥ १७ ॥
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।राजदोषेण हि जगत्स्पृश्यते जगतः स च ॥ १८ ॥
राजधर्मानवेक्षस्व पितृपैतामहोचितान् ।नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ॥ १९ ॥
न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः ।प्रजापालनसंभूतं किंचित्प्राप फलं नृपः ॥ २० ॥
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः ।प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ॥ २१ ॥
यज्ञो दानं तपः शौर्यं प्रजासंतानमेव च ।माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ॥ २२ ॥
नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः ।दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ॥ २३ ॥
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ।दानमध्ययनं यज्ञं प्रजानां परिपालनम् ॥ २४ ॥
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः ।ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः ॥ २५ ॥
यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः ।प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ॥ २६ ॥
दानेनान्यं बलेनान्यं तथा सूनृतयापरम् ।सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥ २७ ॥
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् ।वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ॥ २८ ॥
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते ।क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता ॥ २९ ॥
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर ।साम्ना दानेन भेदेन दण्डेनाथ नयेन च ॥ ३० ॥
इतो दुःखतरं किं नु यदहं हीनबान्धवा ।परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन ॥ ३१ ॥
युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् ।मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ॥ ३२ ॥
« »