Click on words to see what they mean.

वैशंपायन उवाच ।तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् ।पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ॥ १ ॥
ततः सभाया निर्गम्य मन्त्रयामास कौरवः ।सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥ २ ॥
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥ ३ ॥
पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः ।सहितो धृतराष्ट्रेण राज्ञा शांतनवेन च ॥ ४ ॥
वयमेव हृषीकेशं निगृह्णीम बलादिव ।प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥ ५ ॥
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः ।निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥ ६ ॥
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च ।अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् ।निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ॥ ७ ॥
तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् ।क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ॥ ८ ॥
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् ।इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः ॥ ९ ॥
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः ।अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ॥ १० ॥
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः ।यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे ॥ ११ ॥
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव ।आचष्ट तमभिप्रायं केशवाय महात्मने ॥ १२ ॥
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत ।तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ॥ १३ ॥
धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् ।मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन ॥ १४ ॥
पुरा विकुर्वते मूढाः पापात्मानः समागताः ।धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ॥ १५ ॥
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः ।पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ॥ १६ ॥
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् ।धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ॥ १७ ॥
राजन्परीतकालास्ते पुत्राः सर्वे परंतप ।अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः ॥ १८ ॥
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च ।निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ॥ १९ ॥
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् ।आसाद्य न भविष्यन्ति पतंगा इव पावकम् ॥ २० ॥
अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः ।सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् ॥ २१ ॥
न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथंचन ।न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः ॥ २२ ॥
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् ।धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः ॥ २३ ॥
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा ।एते वा मामहं वैनाननुजानीहि पार्थिव ॥ २४ ॥
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे ।न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन ॥ २५ ॥
पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः ।एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ॥ २६ ॥
अद्यैव ह्यहमेतांश्च ये चैताननु भारत ।निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ॥ २७ ॥
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत ।संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् ॥ २८ ॥
एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् ।अहं तु सर्वान्समयाननुजानामि भारत ॥ २९ ॥
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत ।क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ॥ ३० ॥
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् ।शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥ ३१ ॥
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् ।अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ ३२ ॥
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत ।कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् ॥ ३३ ॥
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् ।पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥ ३४ ॥
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् ।यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ॥ ३५ ॥
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् ।पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥ ३६ ॥
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः ।तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ॥ ३७ ॥
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः ।न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ॥ ३८ ॥
दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी ।दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् ॥ ३९ ॥
इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् ।दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥ ४० ॥
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः ।शिलावर्षेण महता छादयामास केशवम् ॥ ४१ ॥
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ।ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥ ४२ ॥
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः ।ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥ ४३ ॥
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ।ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥ ४४ ॥
अनेन हि हता बाल्ये पूतना शिशुना तथा ।गोवर्धनो धारितश्च गवार्थे भरतर्षभ ॥ ४५ ॥
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः ।अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥ ४६ ॥
जरासंधश्च वक्रश्च शिशुपालश्च वीर्यवान् ।बाणश्च निहतः संख्ये राजानश्च निषूदिताः ॥ ४७ ॥
वरुणो निर्जितो राजा पावकश्चामितौजसा ।पारिजातं च हरता जितः साक्षाच्छचीपतिः ॥ ४८ ॥
एकार्णवे शयानेन हतौ तौ मधुकैटभौ ।जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ॥ ४९ ॥
अयं कर्ता न क्रियते कारणं चापि पौरुषे ।यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ॥ ५० ॥
तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् ।आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् ॥ ५१ ॥
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् ।पतंगोऽग्निमिवासाद्य सामात्यो न भविष्यसि ॥ ५२ ॥
« »