Click on words to see what they mean.

वैशंपायन उवाच ।कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः ।विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ॥ १ ॥
गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् ।आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ॥ २ ॥
यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् ।अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् ॥ ३ ॥
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् ।दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः ॥ ४ ॥
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् ।शमयेच्चिररात्राय योगक्षेमवदव्ययम् ॥ ५ ॥
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् ।आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ॥ ६ ॥
धृतराष्ट्र उवाच ।एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ।ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ॥ ७ ॥
अशिष्टवदमर्यादः पापैः सह दुरात्मभिः ।सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ॥ ८ ॥
वैशंपायन उवाच ।सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी ।अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ॥ ९ ॥
आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् ।न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ॥ १० ॥
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः ।यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ॥ ११ ॥
स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः ।अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ॥ १२ ॥
राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः ।दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् ॥ १३ ॥
कथं हि स्वजने भेदमुपेक्षेत महामतिः ।भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः ॥ १४ ॥
या हि शक्या महाराज साम्ना दानेन वा पुनः ।निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ॥ १५ ॥
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् ।मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ॥ १६ ॥
स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः ।अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः ॥ १७ ॥
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् ॥ १८ ॥
दुर्योधन निबोधेदं वचनं मम पुत्रक ।हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् ॥ १९ ॥
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता ।भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ॥ २० ॥
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते ।अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ ॥ २१ ॥
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् ।विजितात्मा तु मेधावी स राज्यमभिपालयेत् ॥ २२ ॥
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः ।तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ॥ २३ ॥
लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः ।राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ॥ २४ ॥
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः ।इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ॥ २५ ॥
अविधेयानि हीमानि व्यापादयितुमप्यलम् ।अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ २६ ॥
अविजित्य य आत्मानममात्यान्विजिगीषते ।अजितात्माजितामात्यः सोऽवशः परिहीयते ॥ २७ ॥
आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ २८ ॥
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ २९ ॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ॥ ३० ॥
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् ।बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ॥ ३१ ॥
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।सम्यग्विजेतुं यो वेद स महीमभिजायते ॥ ३२ ॥
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ।ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ॥ ३३ ॥
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते ।स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ॥ ३४ ॥
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः ।पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ॥ ३५ ॥
यथा भीष्मः शांतनवो द्रोणश्चापि महारथः ।आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ॥ ३६ ॥
प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् ।प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ॥ ३७ ॥
सुहृदामर्थकामानां यो न तिष्ठति शासने ।प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥ ३८ ॥
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् ।न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ॥ ३९ ॥
भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च ।दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम ॥ ४० ॥
तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि ।यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम् ॥ ४१ ॥
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम ।यदीच्छसि सहामात्यो भोक्तुमर्धं महीक्षिताम् ॥ ४२ ॥
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् ।सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत ॥ ४३ ॥
श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः ।पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ॥ ४४ ॥
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् ।स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ॥ ४५ ॥
अलमह्ना निकारोऽयं त्रयोदश समाः कृतः ।शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ॥ ४६ ॥
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति ।सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ॥ ४७ ॥
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनंजये ।धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ॥ ४८ ॥
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः ।सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम् ॥ ४९ ॥
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः ।योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ॥ ५० ॥
समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् ।पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ॥ ५१ ॥
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् ।न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ॥ ५२ ॥
न लोभादर्थसंपत्तिर्नराणामिह दृश्यते ।तदलं तात लोभेन प्रशाम्य भरतर्षभ ॥ ५३ ॥
« »