Click on words to see what they mean.

धृतराष्ट्र उवाच ।भगवन्नेवमेवैतद्यथा वदसि नारद ।इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ॥ १ ॥
वैशंपायन उवाच ।एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत ।स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ॥ २ ॥
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् ।अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ॥ ३ ॥
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ।सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन ॥ ४ ॥
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ।अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ॥ ५ ॥
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम ।समर्थं ते विशेषेण सानुबन्धस्य भारत ॥ ६ ॥
महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि ।श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः ॥ ७ ॥
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः ।त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ॥ ८ ॥
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् ।असतां विपरीता तु लक्ष्यते भरतर्षभ ॥ ९ ॥
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ।अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ॥ १० ॥
अनेकशस्त्वन्निमित्तमयशस्यं च भारत ।तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ॥ ११ ॥
भ्रातॄणामथ भृत्यानां मित्राणां च परंतप ।अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ॥ १२ ॥
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः ।संधत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ॥ १३ ॥
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ।पितामहस्य द्रोणस्य विदुरस्य महामतेः ॥ १४ ॥
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।अश्वत्थाम्नो विकर्णस्य संजयस्य विशां पते ॥ १५ ॥
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परंतप ।शमे शर्म भवेत्तात सर्वस्य जगतस्तथा ॥ १६ ॥
ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् ।तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ॥ १७ ॥
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत ।उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् ॥ १८ ॥
रोचते ते पितुस्तात पाण्डवैः सह संगमः ।सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् ॥ १९ ॥
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ॥ २० ॥
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते ।स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ॥ २१ ॥
यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते ।आत्मनो मतमुत्सृज्य स लोके सुखमेधते ॥ २२ ॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।शृणोति प्रतिकूलानि द्विषतां वशमेति सः ॥ २३ ॥
सतां मतमतिक्रम्य योऽसतां वर्तते मते ।शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ॥ २४ ॥
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते ।स घोरामापदं प्राप्य नोत्तारमधिगच्छति ॥ २५ ॥
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा ।परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत ॥ २६ ॥
स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि ।अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ॥ २७ ॥
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् ।अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ॥ २८ ॥
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ॥ २९ ॥
मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः ।त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः ॥ ३० ॥
त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ ।स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ॥ ३१ ॥
त्रिवर्गयुक्ता प्राज्ञानामारम्भा भरतर्षभ ।धर्मार्थावनुरुध्यन्ते त्रिवर्गासंभवे नराः ॥ ३२ ॥
पृथक्तु विनिविष्टानां धर्मं धीरोऽनुरुध्यते ।मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते ॥ ३३ ॥
इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः ।कामार्थावनुपायेन लिप्समानो विनश्यति ॥ ३४ ॥
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् ।न हि धर्मादपैत्यर्थः कामो वापि कदाचन ॥ ३५ ॥
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते ।लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ॥ ३६ ॥
स त्वं तातानुपायेन लिप्ससे भरतर्षभ ।आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ॥ ३७ ॥
आत्मानं तक्षति ह्येष वनं परशुना यथा ।यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ॥ ३८ ॥
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ।अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः ॥ ३९ ॥
त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत ।अप्यन्यं प्राकृतं किंचित्किमु तान्पाण्डवर्षभान् ॥ ४० ॥
अमर्षवशमापन्नो न किंचिद्बुध्यते नरः ।छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ॥ ४१ ॥
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह संगमः ।तैर्हि संप्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि ॥ ४२ ॥
पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम ।पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः ॥ ४३ ॥
दुःशासने दुर्विषहे कर्णे चापि ससौबले ।एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ॥ ४४ ॥
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ।विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत ॥ ४५ ॥
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ।क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ॥ ४६ ॥
इदं संनिहितं तात समग्रं पार्थिवं बलम् ।अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ॥ ४७ ॥
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ।अशक्ताः सर्व एवैते प्रतियोद्धुं धनंजयम् ॥ ४८ ॥
अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः ।मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ॥ ४९ ॥
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले ।योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ॥ ५० ॥
किं ते जनक्षयेणेह कृतेन भरतर्षभ ।यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् ॥ ५१ ॥
यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् ।अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः ॥ ५२ ॥
तथा विराटनगरे श्रूयते महदद्भुतम् ।एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ ५३ ॥
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।आशंससीह समरे वीरमर्जुनमूर्जितम् ॥ ५४ ॥
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति ।युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः ॥ ५५ ॥
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ ५६ ॥
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा ।त्वत्कृते न विनश्येयुरेते भरतसत्तम ॥ ५७ ॥
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ॥ ५८ ॥
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः ।महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम् ॥ ५९ ॥
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् ।अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि ॥ ६० ॥
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ॥ ६१ ॥
« »