Click on words to see what they mean.

नारद उवाच ।इदं रसातलं नाम सप्तमं पृथिवीतलम् ।यत्रास्ते सुरभिर्माता गवाममृतसंभवा ॥ १ ॥
क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् ।षण्णां रसानां सारेण रसमेकमनुत्तमम् ॥ २ ॥
अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा ।पितामहस्य वदनादुदतिष्ठदनिन्दिता ॥ ३ ॥
यस्याः क्षीरस्य धाराया निपतन्त्या महीतले ।ह्रदः कृतः क्षीरनिधिः पवित्रं परमुत्तमम् ॥ ४ ॥
पुष्पितस्येव फेनस्य पर्यन्तमनुवेष्टितम् ।पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ॥ ५ ॥
फेनपा नाम नाम्ना ते फेनाहाराश्च मातले ।उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ॥ ६ ॥
अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले ।निवसन्ति दिशापाल्यो धारयन्त्यो दिशः स्मृताः ॥ ७ ॥
पूर्वां दिशं धारयते सुरूपा नाम सौरभी ।दक्षिणां हंसका नाम धारयत्यपरां दिशम् ॥ ८ ॥
पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया ।महानुभावया नित्यं मातले विश्वरूपया ॥ ९ ॥
सर्वकामदुघा नाम धेनुर्धारयते दिशम् ।उत्तरां मातले धर्म्यां तथैलविलसंज्ञिताम् ॥ १० ॥
आसां तु पयसा मिश्रं पयो निर्मथ्य सागरे ।मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ॥ ११ ॥
उद्धृता वारुणी लक्ष्मीरमृतं चापि मातले ।उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ॥ १२ ॥
सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम् ।अमृतं चामृताशेषु सुरभिः क्षरते पयः ॥ १३ ॥
अत्र गाथा पुरा गीता रसातलनिवासिभिः ।पौराणी श्रूयते लोके गीयते या मनीषिभिः ॥ १४ ॥
न नागलोके न स्वर्गे न विमाने त्रिविष्टपे ।परिवासः सुखस्तादृग्रसातलतले यथा ॥ १५ ॥
« »