Click on words to see what they mean.

इन्द्र उवाच ।सर्वं व्याप्तमिदं देवा वृत्रेण जगदव्ययम् ।न ह्यस्य सदृशं किंचित्प्रतिघाताय यद्भवेत् ॥ १ ॥
समर्थो ह्यभवं पूर्वमसमर्थोऽस्मि सांप्रतम् ।कथं कुर्यां नु भद्रं वो दुष्प्रधर्षः स मे मतः ॥ २ ॥
तेजस्वी च महात्मा च युद्धे चामितविक्रमः ।ग्रसेत्त्रिभुवनं सर्वं सदेवासुरमानुषम् ॥ ३ ॥
तस्माद्विनिश्चयमिमं शृणुध्वं मे दिवौकसः ।विष्णोः क्षयमुपागम्य समेत्य च महात्मना ।तेन संमन्त्र्य वेत्स्यामो वधोपायं दुरात्मनः ॥ ४ ॥
शल्य उवाच ।एवमुक्ते मघवता देवाः सर्षिगणास्तदा ।शरण्यं शरणं देवं जग्मुर्विष्णुं महाबलम् ॥ ५ ॥
ऊचुश्च सर्वे देवेशं विष्णुं वृत्रभयार्दिताः ।त्वया लोकास्त्रयः क्रान्तास्त्रिभिर्विक्रमणैः प्रभो ॥ ६ ॥
अमृतं चाहृतं विष्णो दैत्याश्च निहता रणे ।बलिं बद्ध्वा महादैत्यं शक्रो देवाधिपः कृतः ॥ ७ ॥
त्वं प्रभुः सर्वलोकानां त्वया सर्वमिदं ततम् ।त्वं हि देव महादेवः सर्वलोकनमस्कृतः ॥ ८ ॥
गतिर्भव त्वं देवानां सेन्द्राणाममरोत्तम ।जगद्व्याप्तमिदं सर्वं वृत्रेणासुरसूदन ॥ ९ ॥
विष्णुरुवाच ।अवश्यं करणीयं मे भवतां हितमुत्तमम् ।तस्मादुपायं वक्ष्यामि यथासौ न भविष्यति ॥ १० ॥
गच्छध्वं सर्षिगन्धर्वा यत्रासौ विश्वरूपधृक् ।साम तस्य प्रयुञ्जध्वं तत एनं विजेष्यथ ॥ ११ ॥
भविष्यति गतिर्देवाः शक्रस्य मम तेजसा ।अदृश्यश्च प्रवेक्ष्यामि वज्रमस्यायुधोत्तमम् ॥ १२ ॥
गच्छध्वमृषिभिः सार्धं गन्धर्वैश्च सुरोत्तमाः ।वृत्रस्य सह शक्रेण संधिं कुरुत माचिरम् ॥ १३ ॥
शल्य उवाच ।एवमुक्तास्तु देवेन ऋषयस्त्रिदशास्तथा ।ययुः समेत्य सहिताः शक्रं कृत्वा पुरःसरम् ॥ १४ ॥
समीपमेत्य च तदा सर्व एव महौजसः ।तं तेजसा प्रज्वलितं प्रतपन्तं दिशो दश ॥ १५ ॥
ग्रसन्तमिव लोकांस्त्रीन्सूर्याचन्द्रमसौ यथा ।ददृशुस्तत्र ते वृत्रं शक्रेण सह देवताः ॥ १६ ॥
ऋषयोऽथ ततोऽभ्येत्य वृत्रमूचुः प्रियं वचः ।व्याप्तं जगदिदं सर्वं तेजसा तव दुर्जय ॥ १७ ॥
न च शक्नोषि निर्जेतुं वासवं भूरिविक्रमम् ।युध्यतोश्चापि वां कालो व्यतीतः सुमहानिह ॥ १८ ॥
पीड्यन्ते च प्रजाः सर्वाः सदेवासुरमानवाः ।सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ।अवाप्स्यसि सुखं त्वं च शक्रलोकांश्च शाश्वतान् ॥ १९ ॥
ऋषिवाक्यं निशम्याथ स वृत्रः सुमहाबलः ।उवाच तांस्तदा सर्वान्प्रणम्य शिरसासुरः ॥ २० ॥
सर्वे यूयं महाभागा गन्धर्वाश्चैव सर्वशः ।यद्ब्रूत तच्छ्रुतं सर्वं ममापि शृणुतानघाः ॥ २१ ॥
संधिः कथं वै भविता मम शक्रस्य चोभयोः ।तेजसोर्हि द्वयोर्देवाः सख्यं वै भविता कथम् ॥ २२ ॥
ऋषय ऊचुः ।सकृत्सतां संगतं लिप्सितव्यं ततः परं भविता भव्यमेव ।नातिक्रमेत्सत्पुरुषेण संगतं तस्मात्सतां संगतं लिप्सितव्यम् ॥ २३ ॥
दृढं सतां संगतं चापि नित्यं ब्रूयाच्चार्थं ह्यर्थकृच्छ्रेषु धीरः ।महार्थवत्सत्पुरुषेण संगतं तस्मात्सन्तं न जिघांसेत धीरः ॥ २४ ॥
इन्द्रः सतां संमतश्च निवासश्च महात्मनाम् ।सत्यवादी ह्यदीनश्च धर्मवित्सुविनिश्चितः ॥ २५ ॥
तेन ते सह शक्रेण संधिर्भवतु शाश्वतः ।एवं विश्वासमागच्छ मा ते भूद्बुद्धिरन्यथा ॥ २६ ॥
शल्य उवाच ।महर्षिवचनं श्रुत्वा तानुवाच महाद्युतिः ।अवश्यं भगवन्तो मे माननीयास्तपस्विनः ॥ २७ ॥
ब्रवीमि यदहं देवास्तत्सर्वं क्रियतामिह ।ततः सर्वं करिष्यामि यदूचुर्मां द्विजर्षभाः ॥ २८ ॥
न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ।न शस्त्रेण न वज्रेण न दिवा न तथा निशि ॥ २९ ॥
वध्यो भवेयं विप्रेन्द्राः शक्रस्य सह दैवतैः ।एवं मे रोचते संधिः शक्रेण सह नित्यदा ॥ ३० ॥
बाढमित्येव ऋषयस्तमूचुर्भरतर्षभ ।एवं कृते तु संधाने वृत्रः प्रमुदितोऽभवत् ॥ ३१ ॥
यत्तः सदाभवच्चापि शक्रोऽमर्षसमन्वितः ।वृत्रस्य वधसंयुक्तानुपायाननुचिन्तयन् ।रन्ध्रान्वेषी समुद्विग्नः सदाभूद्बलवृत्रहा ॥ ३२ ॥
स कदाचित्समुद्रान्ते तमपश्यन्महासुरम् ।संध्याकाल उपावृत्ते मुहूर्ते रम्यदारुणे ॥ ३३ ॥
ततः संचिन्त्य भगवान्वरदानं महात्मनः ।संध्येयं वर्तते रौद्रा न रात्रिर्दिवसं न च ।वृत्रश्चावश्यवध्योऽयं मम सर्वहरो रिपुः ॥ ३४ ॥
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महासुरम् ।महाबलं महाकायं न मे श्रेयो भविष्यति ॥ ३५ ॥
एवं संचिन्तयन्नेव शक्रो विष्णुमनुस्मरन् ।अथ फेनं तदापश्यत्समुद्रे पर्वतोपमम् ॥ ३६ ॥
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ।एनं क्षेप्स्यामि वृत्रस्य क्षणादेव नशिष्यति ॥ ३७ ॥
सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान् ।प्रविश्य फेनं तं विष्णुरथ वृत्रं व्यनाशयत् ॥ ३८ ॥
निहते तु ततो वृत्रे दिशो वितिमिराभवन् ।प्रववौ च शिवो वायुः प्रजाश्च जहृषुस्तदा ॥ ३९ ॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः ॥ ४० ॥
नमस्कृतः सर्वभूतैः सर्वभूतानि सान्त्वयन् ।हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ।विष्णुं त्रिभुवनश्रेष्ठं पूजयामास धर्मवित् ॥ ४१ ॥
ततो हते महावीर्ये वृत्रे देवभयंकरे ।अनृतेनाभिभूतोऽभूच्छक्रः परमदुर्मनाः ।त्रैशीर्षयाभिभूतश्च स पूर्वं ब्रह्महत्यया ॥ ४२ ॥
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।न प्राज्ञायत देवेन्द्रस्त्वभिभूतः स्वकल्मषैः ।प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥ ४३ ॥
ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ।भूमिः प्रध्वस्तसंकाशा निर्वृक्षा शुष्ककानना ।विच्छिन्नस्रोतसो नद्यः सरांस्यनुदकानि च ॥ ४४ ॥
संक्षोभश्चापि सत्त्वानामनावृष्टिकृतोऽभवत् ।देवाश्चापि भृशं त्रस्तास्तथा सर्वे महर्षयः ॥ ४५ ॥
अराजकं जगत्सर्वमभिभूतमुपद्रवैः ।ततो भीताभवन्देवाः को नो राजा भवेदिति ॥ ४६ ॥
दिवि देवर्षयश्चापि देवराजविनाकृताः ।न च स्म कश्चिद्देवानां राज्याय कुरुते मनः ॥ ४७ ॥
« »