Click on words to see what they mean.

विराट उवाच ।किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम ।प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ॥ १ ॥
अर्जुन उवाच ।अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव ।रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥ २ ॥
प्रियो बहुमतश्चाहं नर्तको गीतकोविदः ।आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥ ३ ॥
वयःस्थया तया राजन्सह संवत्सरोषितः ।अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ॥ ४ ॥
तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते ।शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ॥ ५ ॥
स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥ ६ ॥
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप ।स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥ ७ ॥
स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा ।दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः ॥ ८ ॥
अभिमन्युर्महाबाहुः पुत्रो मम विशां पते ।जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥ ९ ॥
विराट उवाच ।उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये ।य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ॥ १० ॥
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् ।सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः ॥ ११ ॥
वैशंपायन उवाच ।एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः ।अन्वजानात्स संयोगं समये मत्स्यपार्थयोः ॥ १२ ॥
ततो मित्रेषु सर्वेषु वासुदेवे च भारत ।प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥ १३ ॥
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ।उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ॥ १४ ॥
तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् ।आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ॥ १५ ॥
काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे ।अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ॥ १६ ॥
अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः ।द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥ १७ ॥
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः ।समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास्तनुत्यजः ॥ १८ ॥
तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः ।प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ॥ १९ ॥
ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः ।तत्रागमद्वासुदेवो वनमाली हलायुधः ।कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ॥ २० ॥
अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च ।अभिमन्युमुपादाय सह मात्रा परंतपाः ॥ २१ ॥
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।आययुः सहिताः सर्वे परिसंवत्सरोषिताः ॥ २२ ॥
दश नागसहस्राणि हयानां च शतायुतम् ।रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ॥ २३ ॥
वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः ।अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ॥ २४ ॥
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् ।स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः ।ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः ॥ २५ ॥
ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा ।पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ॥ २६ ॥
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् ।सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ॥ २७ ॥
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा ।स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥ २८ ॥
सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः ।आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥ २९ ॥
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः ।सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया ॥ ३० ॥
परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम् ।सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥ ३१ ॥
तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनंजयः ।सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ॥ ३२ ॥
तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् ।स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ॥ ३३ ॥
प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् ।विवाहं कारयामास सौभद्रस्य महात्मनः ॥ ३४ ॥
तस्मै सप्त सहस्राणि हयानां वातरंहसाम् ।द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा ॥ ३५ ॥
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः ।ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥ ३६ ॥
गोसहस्राणि रत्नानि वस्त्राणि विविधानि च ।भूषणानि च मुख्यानि यानानि शयनानि च ॥ ३७ ॥
तन्महोत्सवसंकाशं हृष्टपुष्टजनावृतम् ।नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥ ३८ ॥
« »