Click on words to see what they mean.

विराट उवाच ।यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः ।कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥ १ ॥
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् ॥ २ ॥
अर्जुन उवाच ।य एष बल्लवो ब्रूते सूदस्तव नराधिप ।एष भीमो महाबाहुर्भीमवेगपराक्रमः ॥ ३ ॥
एष क्रोधवशान्हत्वा पर्वते गन्धमादने ।सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ॥ ४ ॥
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् ।व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ॥ ५ ॥
यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः ।गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ॥ ६ ॥
शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ ।नानारथसहस्राणां समर्थौ पुरुषर्षभौ ॥ ७ ॥
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ॥ ८ ॥
अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः ।भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ॥ ९ ॥
उषिताः स्म महाराज सुखं तव निवेशने ।अज्ञातवासमुषिता गर्भवास इव प्रजाः ॥ १० ॥
वैशंपायन उवाच ।यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः ।तदार्जुनस्य वैराटिः कथयामास विक्रमम् ॥ ११ ॥
अयं स द्विषतां मध्ये मृगाणामिव केसरी ।अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान् ॥ १२ ॥
अनेन विद्धो मातङ्गो महानेकेषुणा हतः ।हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम् ॥ १३ ॥
अनेन विजिता गावो जिताश्च कुरवो युधि ।अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् ।उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥ १५ ॥
प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये ।उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम् ॥ १६ ॥
उत्तर उवाच ।अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् ।पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः ॥ १७ ॥
विराट उवाच ।अहं खल्वपि संग्रामे शत्रूणां वशमागतः ।मोक्षितो भीमसेनेन गावश्च विजितास्तथा ॥ १८ ॥
एतेषां बाहुवीर्येण यदस्माकं जयो मृधे ।वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ॥ १९ ॥
यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः ।क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ॥ २० ॥
वैशंपायन उवाच ।ततो विराटः परमाभितुष्टः समेत्य राज्ञा समयं चकार ।राज्यं च सर्वं विससर्ज तस्मै सदण्डकोशं सपुरं महात्मा ॥ २१ ॥
पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् ।धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ॥ २२ ॥
समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः ।युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ॥ २३ ॥
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ।संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ॥ २४ ॥
दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् ।दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः ॥ २५ ॥
इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन ।प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया ॥ २६ ॥
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः ।अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥ २७ ॥
एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम् ।ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ॥ २८ ॥
प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव ।युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ ॥ २९ ॥
« »