Click on words to see what they mean.

वैशंपायन उवाच ।आहूयमानस्तु स तेन संख्ये महामना धृतराष्ट्रस्य पुत्रः ।निवर्तितस्तस्य गिराङ्कुशेन गजो यथा मत्त इवाङ्कुशेन ॥ १ ॥
सोऽमृष्यमाणो वचसाभिमृष्टो महारथेनातिरथस्तरस्वी ।पर्याववर्ताथ रथेन वीरो भोगी यथा पादतलाभिमृष्टः ॥ २ ॥
तं प्रेक्ष्य कर्णः परिवर्तमानं निवर्त्य संस्तभ्य च विद्धगात्रः ।दुर्योधनं दक्षिणतोऽभ्यगच्छत्पार्थं नृवीरो युधि हेममाली ॥ ३ ॥
भीष्मस्ततः शांतनवो निवृत्य हिरण्यकक्ष्यांस्त्वरयंस्तुरंगान् ।दुर्योधनं पश्चिमतोऽभ्यरक्षत्पार्थान्महाबाहुरधिज्यधन्वा ॥ ४ ॥
द्रोणः कृपश्चैव विविंशतिश्च दुःशासनश्चैव निवृत्य शीघ्रम् ।सर्वे पुरस्ताद्विततेषुचापा दुर्योधनार्थं त्वरिताभ्युपेयुः ॥ ५ ॥
स तान्यनीकानि निवर्तमानान्यालोक्य पूर्णौघनिभानि पार्थः ।हंसो यथा मेघमिवापतन्तं धनंजयः प्रत्यपतत्तरस्वी ॥ ६ ॥
ते सर्वतः संपरिवार्य पार्थमस्त्राणि दिव्यानि समाददानाः ।ववर्षुरभ्येत्य शरैः समन्तान्मेघा यथा भूधरमम्बुवेगैः ॥ ७ ॥
ततोऽस्त्रमस्त्रेण निवार्य तेषां गाण्डीवधन्वा कुरुपुंगवानाम् ।संमोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रिरपारणीयम् ॥ ८ ॥
ततो दिशश्चानुदिशो विवृत्य शरैः सुधारैर्निशितैः सुपुङ्खैः ।गाण्डीवघोषेण मनांसि तेषां महाबलः प्रव्यथयां चकार ॥ ९ ॥
ततः पुनर्भीमरवं प्रगृह्य दोर्भ्यां महाशङ्खमुदारघोषम् ।व्यनादयत्स प्रदिशो दिशः खं भुवं च पार्थो द्विषतां निहन्ता ॥ १० ॥
ते शङ्खनादेन कुरुप्रवीराः संमोहिताः पार्थसमीरितेन ।उत्सृज्य चापानि दुरासदानि सर्वे तदा शान्तिपरा बभूवुः ॥ ११ ॥
तथा विसंज्ञेषु परेषु पार्थः स्मृत्वा तु वाक्यानि तथोत्तरायाः ।निर्याहि मध्यादिति मत्स्यपुत्रमुवाच यावत्कुरवो विसंज्ञाः ॥ १२ ॥
आचार्य शारद्वतयोः सुशुक्ले कर्णस्य पीतं रुचिरं च वस्त्रम् ।द्रौणेश्च राज्ञश्च तथैव नीले वस्त्रे समादत्स्व नरप्रवीर ॥ १३ ॥
भीष्मस्य संज्ञां तु तथैव मन्ये जानाति मेऽस्त्रप्रतिघातमेषः ।एतस्य वाहान्कुरु सव्यतस्त्वमेवं हि यातव्यममूढसंज्ञैः ॥ १४ ॥
रश्मीन्समुत्सृज्य ततो महात्मा रथादवप्लुत्य विराटपुत्रः ।वस्त्राण्युपादाय महारथानां तूर्णं पुनः स्वं रथमारुरोह ॥ १५ ॥
ततोऽन्वशासच्चतुरः सदश्वान्पुत्रो विराटस्य हिरण्यकक्ष्यान् ।ते तद्व्यतीयुर्ध्वजिनामनीकं श्वेता वहन्तोऽर्जुनमाजिमध्यात् ॥ १६ ॥
तथा तु यान्तं पुरुषप्रवीरं भीष्मः शरैरभ्यहनत्तरस्वी ।स चापि भीष्मस्य हयान्निहत्य विव्याध पार्श्वे दशभिः पृषत्कैः ॥ १७ ॥
ततोऽर्जुनो भीष्ममपास्य युद्धे विद्ध्वास्य यन्तारमरिष्टधन्वा ।तस्थौ विमुक्तो रथवृन्दमध्याद्राहुं विदार्येव सहस्ररश्मिः ॥ १८ ॥
लब्ध्वा तु संज्ञां च कुरुप्रवीरः पार्थं समीक्ष्याथ महेन्द्रकल्पम् ।रणाद्विमुक्तं स्थितमेकमाजौ स धार्तराष्ट्रस्त्वरितो बभाषे ॥ १९ ॥
अयं कथं स्विद्भवतां विमुक्तस्तं वै प्रबध्नीत यथा न मुच्येत् ।तमब्रवीच्छांतनवः प्रहस्य क्व ते गता बुद्धिरभूत्क्व वीर्यम् ॥ २० ॥
शान्तिं पराश्वस्य यथा स्थितोऽभूरुत्सृज्य बाणांश्च धनुश्च चित्रम् ।न त्वेव बीभत्सुरलं नृशंसं कर्तुं न पापेऽस्य मनो निविष्टम् ॥ २१ ॥
त्रैलोक्यहेतोर्न जहेत्स्वधर्मं तस्मान्न सर्वे निहता रणेऽस्मिन् ।क्षिप्रं कुरून्याहि कुरुप्रवीर विजित्य गाश्च प्रतियातु पार्थः ॥ २२ ॥
दुर्योधनस्तस्य तु तन्निशम्य पितामहस्यात्महितं वचोऽथ ।अतीतकामो युधि सोऽत्यमर्षी राजा विनिःश्वस्य बभूव तूष्णीम् ॥ २३ ॥
तद्भीष्मवाक्यं हितमीक्ष्य सर्वे धनंजयाग्निं च विवर्धमानम् ।निवर्तनायैव मनो निदध्युर्दुर्योधनं ते परिरक्षमाणाः ॥ २४ ॥
तान्प्रस्थितान्प्रीतमनाः स पार्थो धनंजयः प्रेक्ष्य कुरुप्रवीरान् ।आभाषमाणोऽनुययौ मुहूर्तं संपूजयंस्तत्र गुरून्महात्मा ॥ २५ ॥
पितामहं शांतनवं स वृद्धं द्रोणं गुरुं च प्रतिपूज्य मूर्ध्ना ।द्रौणिं कृपं चैव गुरूंश्च सर्वाञ्शरैर्विचित्रैरभिवाद्य चैव ॥ २६ ॥
दुर्योधनस्योत्तमरत्नचित्रं चिच्छेद पार्थो मुकुटं शरेण ।आमन्त्र्य वीरांश्च तथैव मान्यान्गाण्डीवघोषेण विनाद्य लोकान् ॥ २७ ॥
स देवदत्तं सहसा विनाद्य विदार्य वीरो द्विषतां मनांसि ।ध्वजेन सर्वानभिभूय शत्रून्स हेमजालेन विराजमानः ॥ २८ ॥
दृष्ट्वा प्रयातांस्तु कुरून्किरीटी हृष्टोऽब्रवीत्तत्र स मत्स्यपुत्रम् ।आवर्तयाश्वान्पशवो जितास्ते याताः परे याहि पुरं प्रहृष्टः ॥ २९ ॥
« »