Click on words to see what they mean.

वैशंपायन उवाच ।भीष्मे तु संग्रामशिरो विहाय पलायमाने धृतराष्ट्रपुत्रः ।उच्छ्रित्य केतुं विनदन्महात्मा स्वयं विगृह्यार्जुनमाससाद ॥ १ ॥
स भीमधन्वानमुदग्रवीर्यं धनंजयं शत्रुगणे चरन्तम् ।आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ॥ २ ॥
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंशितेन ।रराज राजन्महनीयकर्मा यथैकपर्वा रुचिरैकशृङ्गः ॥ ३ ॥
अथास्य बाणेन विदारितस्य प्रादुर्बभूवासृगजस्रमुष्णम् ।सा तस्य जाम्बूनदपुष्पचित्रा मालेव चित्राभिविराजते स्म ॥ ४ ॥
स तेन बाणाभिहतस्तरस्वी दुर्योधनेनोद्धतमन्युवेगः ।शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्त्वः ॥ ५ ॥
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।अन्योन्यमाजौ पुरुषप्रवीरौ समं समाजघ्नतुराजमीढौ ॥ ६ ॥
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥ ७ ॥
तमापतन्तं त्वरितं गजेन्द्रं धनंजयः कुम्भविभागमध्ये ।आकर्णपूर्णेन दृढायसेन बाणेन विव्याध महाजवेन ॥ ८ ॥
पार्थेन सृष्टः स तु गार्ध्रपत्र आ पुङ्खदेशात्प्रविवेश नागम् ।विदार्य शैलप्रवरप्रकाशं यथाशनिः पर्वतमिन्द्रसृष्टः ॥ ९ ॥
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा ।संसीदमानो निपपात मह्यां वज्राहतं शृङ्गमिवाचलस्य ॥ १० ॥
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसावतीर्य ।तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥ ११ ॥
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवराम्बुदाभम् ।तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥ १२ ॥
ततो गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।गाण्डीवमुक्तैर्विशिखैः प्रणुन्नास्ते योधमुख्याः सहसापजग्मुः ॥ १३ ॥
दृष्ट्वैव बाणेन हतं तु नागं योधांश्च सर्वान्द्रवतो निशम्य ।रथं समावृत्य कुरुप्रवीरो रणात्प्रदुद्राव यतो न पार्थः ॥ १४ ॥
तं भीमरूपं त्वरितं द्रवन्तं दुर्योधनं शत्रुसहो निषङ्गी ।प्राक्ष्वेडयद्योद्धुमनाः किरीटी बाणेन विद्धं रुधिरं वमन्तम् ॥ १५ ॥
अर्जुन उवाच ।विहाय कीर्तिं विपुलं यशश्च युद्धात्परावृत्य पलायसे किम् ।न तेऽद्य तूर्याणि समाहतानि यथावदुद्यान्ति गतस्य युद्धे ॥ १६ ॥
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोऽस्मि ।तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥ १७ ॥
मोघं तवेदं भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् ।न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाय ॥ १८ ॥
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् ।परैहि युद्धेन कुरुप्रवीर प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ॥ १९ ॥
« »