Click on words to see what they mean.

वैशंपायन उवाच ।ततो विराटं प्रथमं युधिष्ठिरो राजा सभायामुपविष्टमाव्रजत् ।वैडूर्यरूपान्प्रतिमुच्य काञ्चनानक्षान्स कक्षे परिगृह्य वाससा ॥ १ ॥
नराधिपो राष्ट्रपतिं यशस्विनं महायशाः कौरववंशवर्धनः ।महानुभावो नरराजसत्कृतो दुरासदस्तीक्ष्णविषो यथोरगः ॥ २ ॥
बलेन रूपेण नरर्षभो महानथार्चिरूपेण यथामरस्तथा ।महाभ्रजालैरिव संवृतो रविर्यथानलो भस्मवृतश्च वीर्यवान् ॥ ३ ॥
तमापतन्तं प्रसमीक्ष्य पाण्डवं विराटराडिन्दुमिवाभ्रसंवृतम् ।मन्त्रिद्विजान्सूतमुखान्विशस्तथा ये चापि केचित्परिषत्समासते ।पप्रच्छ कोऽयं प्रथमं समेयिवाननेन योऽयं प्रसमीक्षते सभाम् ॥ ४ ॥
न तु द्विजोऽयं भविता नरोत्तमः पतिः पृथिव्या इति मे मनोगतम् ।न चास्य दासो न रथो न कुण्डले समीपतो भ्राजति चायमिन्द्रवत् ॥ ५ ॥
शरीरलिङ्गैरुपसूचितो ह्ययं मूर्धाभिषिक्तोऽयमितीव मानसम् ।समीपमायाति च मे गतव्यथो यथा गजस्तामरसीं मदोत्कटः ॥ ६ ॥
वितर्कयन्तं तु नरर्षभस्तदा युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् ।सम्राड्विजानात्विह जीवितार्थिनं विनष्टसर्वस्वमुपागतं द्विजम् ॥ ७ ॥
इहाहमिच्छामि तवानघान्तिके वस्तुं यथा कामचरस्तथा विभो ।तमब्रवीत्स्वागतमित्यनन्तरं राजा प्रहृष्टः प्रतिसंगृहाण च ॥ ८ ॥
कामेन ताताभिवदाम्यहं त्वां कस्यासि राज्ञो विषयादिहागतः ।गोत्रं च नामापि च शंस तत्त्वतः किं चापि शिल्पं तव विद्यते कृतम् ॥ ९ ॥
युधिष्ठिर उवाच ।युधिष्ठिरस्यासमहं पुरा सखा वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः ।अक्षान्प्रवप्तुं कुशलोऽस्मि देविता कङ्केति नाम्नास्मि विराट विश्रुतः ॥ १० ॥
विराट उवाच ।ददामि ते हन्त वरं यमिच्छसि प्रशाधि मत्स्यान्वशगो ह्यहं तव ।प्रिया हि धूर्ता मम देविनः सदा भवांश्च देवोपम राज्यमर्हति ॥ ११ ॥
युधिष्ठिर उवाच ।आप्तो विवादः परमो विशां पते न विद्यते किंचन मत्स्य हीनतः ।न मे जितः कश्चन धारयेद्धनं वरो ममैषोऽस्तु तव प्रसादतः ॥ १२ ॥
विराट उवाच ।हन्यामवध्यं यदि तेऽप्रियं चरेत्प्रव्राजयेयं विषयाद्द्विजांस्तथा ।शृण्वन्तु मे जानपदाः समागताः कङ्को यथाहं विषये प्रभुस्तथा ॥ १३ ॥
समानयानो भवितासि मे सखा प्रभूतवस्त्रो बहुपानभोजनः ।पश्येस्त्वमन्तश्च बहिश्च सर्वदा कृतं च ते द्वारमपावृतं मया ॥ १४ ॥
ये त्वानुवादेयुरवृत्तिकर्शिता ब्रूयाश्च तेषां वचनेन मे सदा ।दास्यामि सर्वं तदहं न संशयो न ते भयं विद्यति संनिधौ मम ॥ १५ ॥
वैशंपायन उवाच ।एवं स लब्ध्वा तु वरं समागमं विराटराजेन नरर्षभस्तदा ।उवास वीरः परमार्चितः सुखी न चापि कश्चिच्चरितं बुबोध तत् ॥ १६ ॥
« »