Click on words to see what they mean.

वैशंपायन उवाच ।ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान् ।वध्यमानेषु योधेषु धनंजयमुपाद्रवत् ॥ १ ॥
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् ।शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः ॥ २ ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा ॥ ३ ॥
प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् ।प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत् ॥ ४ ॥
तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा ।प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः ॥ ५ ॥
ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान् ।समपर्यन्महावेगाञ्श्वसमानानिवोरगान् ॥ ६ ॥
ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः ।ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान् ॥ ७ ॥
ततो भल्लेन महता पृथुधारेण पाण्डवः ।छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि ॥ ८ ॥
ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम् ।शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी ॥ ९ ॥
तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम् ।भीष्मस्य सह पार्थेन बलिवासवयोरिव ॥ १० ॥
भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि ।अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि ॥ ११ ॥
अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः ।गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान् ॥ १२ ॥
स तैः संछादयामास भीष्मं शरशतैः शितैः ।पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥ १३ ॥
तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम् ।व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत् ॥ १४ ॥
ततस्तानि निकृत्तानि शरजालानि भागशः ।समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति ॥ १५ ॥
ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम् ।पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम् ।व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः ॥ १६ ॥
ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन् ।दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत् ॥ १७ ॥
बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः ।कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे ॥ १८ ॥
ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात् ।आचार्यप्रवराद्वापि भारद्वाजान्महाबलात् ॥ १९ ॥
अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ ।चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ ॥ २० ॥
प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम् ।कौबेरं वारुणं चैव याम्यं वायव्यमेव च ।प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः ॥ २१ ॥
विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा ।साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन् ॥ २२ ॥
नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान् ।महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः ॥ २३ ॥
एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत ।अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ।चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम् ॥ २४ ॥
निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे ।समादाय महाबाहुः सज्यं चक्रे महाबलः ।शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनंजये ॥ २५ ॥
अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून् ।चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे ॥ २६ ॥
तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान् ।न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः ॥ २७ ॥
अथावृणोद्दश दिशः शरैरतिरथस्तदा ।किरीटमाली कौन्तेयः शूरः शांतनवस्तथा ॥ २८ ॥
अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम् ।बभूव तस्मिन्संग्रामे राजँल्लोके तदद्भुतम् ॥ २९ ॥
पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः ।शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम् ॥ ३० ॥
ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः ।आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः ॥ ३१ ॥
निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः ।आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः ॥ ३२ ॥
तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः ।प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः ॥ ३३ ॥
तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम् ।शशंस देवराजाय चित्रसेनः प्रतापवान् ॥ ३४ ॥
पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः ।चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः ॥ ३५ ॥
नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते ।पौराणानां महास्त्राणां विचित्रोऽयं समागमः ॥ ३६ ॥
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम् ॥ ३७ ॥
उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ ।उभौ सदृशकर्माणावुभौ युधि दुरासदौ ॥ ३८ ॥
इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम् ।पूजयामास दिव्येन पुष्पवर्षेण भारत ॥ ३९ ॥
ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत् ।अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः ॥ ४० ॥
ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम् ।न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः ॥ ४१ ॥
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः ॥ ४२ ॥
स पीडितो महाबाहुर्गृहीत्वा रथकूबरम् ।गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः ॥ ४३ ॥
तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥ ४४ ॥
« »