Click on words to see what they mean.

वैशंपायन उवाच ।ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् ।एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः ॥ १ ॥
अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः ।काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ।आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ॥ २ ॥
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय ।शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे ॥ ३ ॥
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम ।दक्षिणेनाथ वामेन कतरेण स्विदस्यति ।इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः ॥ ४ ॥
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् ।नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम् ॥ ५ ॥
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् ।वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः ॥ ६ ॥
जयतः कौरवीं सेनामेकस्य मम धन्विनः ।शतं मार्गा भविष्यन्ति पावकस्येव कानने ।मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ॥ ७ ॥
असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च ।दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ॥ ८ ॥
अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा ।पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ ९ ॥
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् ।प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः ॥ १० ॥
अहं पारे समुद्रस्य हिरण्यपुरमारुजम् ।जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् ॥ ११ ॥
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् ।वनमादीपयिष्यामि कुरूणामस्त्रतेजसा ॥ १२ ॥
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः ।एकः संकालयिष्यामि वज्रपाणिरिवासुरान् ॥ १३ ॥
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि ।अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः ।वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ॥ १४ ॥
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् ।अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम् ॥ १५ ॥
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना ।व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः ॥ १६ ॥
तमायान्तं महाबाहुं जिगीषन्तं रणे परान् ।अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम् ॥ १७ ॥
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः ।आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः ॥ १८ ॥
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः ।आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन् ॥ १९ ॥
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् ।द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ॥ २० ॥
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् ।चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ॥ २१ ॥
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे ।सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः ॥ २२ ॥
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः ।विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ॥ २३ ॥
ततस्तमपि कौन्तेयः शरेणानतपर्वणा ।ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ॥ २४ ॥
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः ।अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ॥ २५ ॥
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः ।विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत् ॥ २६ ॥
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ ।अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ॥ २७ ॥
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः ।किरीटमाली कौन्तेयो लब्धलक्षो महाबलः ॥ २८ ॥
« »