Click on words to see what they mean.

अर्जुन उवाच ।कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम् ।न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ १ ॥
अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम् ।इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम् ॥ २ ॥
यत्त्वया कथितं पूर्वं मामनासाद्य किंचन ।तदद्य कुरु राधेय कुरुमध्ये मया सह ॥ ३ ॥
यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः ।दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम् ॥ ४ ॥
धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा ।तस्य राधेय कोपस्य विजयं पश्य मे मृधे ॥ ५ ॥
एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम् ।प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः ॥ ६ ॥
कर्ण उवाच ।ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर ।अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि ॥ ७ ॥
यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम् ।इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम् ॥ ८ ॥
धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा ।तथैव बद्धमात्मानमबद्धमिव मन्यसे ॥ ९ ॥
यदि तावद्वने वासो यथोक्तश्चरितस्त्वया ।तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि ॥ १० ॥
यदि शक्रः स्वयं पार्थ युध्यते तव कारणात् ।तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः ॥ ११ ॥
अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः ।योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम् ॥ १२ ॥
अर्जुन उवाच ।इदानीमेव तावत्त्वमपयातो रणान्मम ।तेन जीवसि राधेय निहतस्त्वनुजस्तव ॥ १३ ॥
भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः ।त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः ॥ १४ ॥
वैशंपायन उवाच ।इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः ।अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः ॥ १५ ॥
प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान् ।शरवर्षेण महता वर्षमाण इवाम्बुदः ॥ १६ ॥
उत्पेतुः शरजालानि घोररूपाणि सर्वशः ।अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक् ॥ १७ ॥
सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम् ।चिच्छेद निशिताग्रेण शरेण नतपर्वणा ॥ १८ ॥
उपासङ्गादुपादाय कर्णो बाणानथापरान् ।विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत ॥ १९ ॥
ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत् ।स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः ॥ २० ॥
ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः ।तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम् ॥ २१ ॥
ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः ।आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि ॥ २२ ॥
अथापरेण बाणेन ज्वलितेन महाभुजः ।विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान् ॥ २३ ॥
तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः ।ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान् ॥ २४ ॥
स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः ।ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः ॥ २५ ॥
« »