Click on words to see what they mean.

अर्जुन उवाच ।यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा ।उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ।तत्र मां वह भद्रं ते द्रोणानीकाय मारिष ॥ १ ॥
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः ।स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः ।युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥ २ ॥
दीर्घबाहुर्महातेजा बलरूपसमन्वितः ।सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान् ॥ ३ ॥
बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये ।वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च ॥ ४ ॥
ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष ।धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः ॥ ५ ॥
क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम् ।एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे ॥ ६ ॥
तेनाहं योद्धुमिच्छामि महाभागेन संयुगे ।तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय ॥ ७ ॥
वैशंपायन उवाच ।अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान् ।चोदयामास तानश्वान्भारद्वाजरथं प्रति ॥ ८ ॥
तमापतन्तं वेगेन पाण्डवं रथिनां वरम् ।द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम् ॥ ९ ॥
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् ।प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥ १० ॥
अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः ।मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ॥ ११ ॥
तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि ।आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥ १२ ॥
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ ।दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥ १३ ॥
हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् ।रथं रथेन द्रोणस्य समासाद्य महारथः ॥ १४ ॥
अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः ।उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥ १५ ॥
उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः ।कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ १६ ॥
अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ ।इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ॥ १७ ॥
ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम् ।अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत् ॥ १८ ॥
ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥ १९ ॥
एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः ।समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः ॥ २० ॥
तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे ।उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ।क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥ २१ ॥
व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः ।शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् ॥ २२ ॥
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात् ।रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत ।इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः ॥ २३ ॥
वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ ।छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥ २४ ॥
विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम् ।संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत ॥ २५ ॥
स सायकमयैर्जालैरर्जुनस्य रथं प्रति ।भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥ २६ ॥
पार्थं च स महाबाहुर्महावेगैर्महारथः ।विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ॥ २७ ॥
तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः ।शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ।विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ॥ २८ ॥
नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान् ।तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत् ॥ २९ ॥
स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः ।युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत् ॥ ३० ॥
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः ।नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ॥ ३१ ॥
तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः ।जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः ॥ ३२ ॥
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम् ।स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम् ॥ ३३ ॥
अग्निचक्रोपमं घोरं विकर्षन्परमायुधम् ।व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः ।महानभूत्ततः शब्दो वंशानामिव दह्यताम् ॥ ३४ ॥
जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः ।प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम् ॥ ३५ ॥
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः ॥ ३६ ॥
द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात् ।एको दीर्घ इवादृश्यदाकाशे संहतः शरः ॥ ३७ ॥
एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान् ।आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः ॥ ३८ ॥
शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः ।पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव ॥ ३९ ॥
युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः ।द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव ॥ ४० ॥
तौ गजाविव चासाद्य विषाणाग्रैः परस्परम् ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ४१ ॥
तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ ।उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः ॥ ४२ ॥
अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान् ।न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः ॥ ४३ ॥
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत् ॥ ४४ ॥
जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम् ।आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः ।अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः ॥ ४५ ॥
दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे ।अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत् ॥ ४६ ॥
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ।अमर्षिणोस्तदान्योन्यं देवदानवयोरिव ॥ ४७ ॥
ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः ।द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः ॥ ४८ ॥
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान् ।एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः ॥ ४९ ॥
ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु ।पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः ॥ ५० ॥
ततो नागा रथाश्चैव सादिनश्च विशां पते ।शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः ॥ ५१ ॥
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः ।सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः ॥ ५२ ॥
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः ।बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे ॥ ५३ ॥
विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने ।आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः ॥ ५४ ॥
अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम् ।दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत् ॥ ५५ ॥
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम् ।जेतारं देवदैत्यानां सर्पाणां च महारथम् ॥ ५६ ॥
अविश्रमं च शिक्षां च लाघवं दूरपातिताम् ।पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः ॥ ५७ ॥
अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः ।विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ ॥ ५८ ॥
तस्य बाणमयं वर्षं शलभानामिवायतम् ।न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम् ॥ ५९ ॥
अनिशं संदधानस्य शरानुत्सृजतस्तदा ।ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च ॥ ६० ॥
तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे ।शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत् ॥ ६१ ॥
ततः शतसहस्राणि शराणां नतपर्वणाम् ।युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात् ॥ ६२ ॥
अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना ।हाहाकारो महानासीत्सैन्यानां भरतर्षभ ॥ ६३ ॥
पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत् ।गन्धर्वाप्सरसश्चैव ये च तत्र समागताः ॥ ६४ ॥
ततो वृन्देन महता रथानां रथयूथपः ।आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत् ॥ ६५ ॥
अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः ।पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम् ॥ ६६ ॥
स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे ।किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ ६७ ॥
आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान् ।अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम् ॥ ६८ ॥
स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः ।छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः ॥ ६९ ॥
« »