Click on words to see what they mean.

वैशंपायन उवाच ।एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः ।आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः ।अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः ॥ १ ॥
तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ ।शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥ २ ॥
पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् ।विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः ॥ ३ ॥
तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् ।कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ॥ ४ ॥
ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् ।दिशः संछादयन्बाणैः प्रदिशश्च महारथः ॥ ५ ॥
एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः ।प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ॥ ६ ॥
स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः ।तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् ।अर्पयित्वा महात्मानं ननाद समरे कृपः ॥ ७ ॥
ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः ।त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ।चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ॥ ८ ॥
ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः ।उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ॥ ९ ॥
च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः ।नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ॥ १० ॥
स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् ।विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ॥ ११ ॥
ततः पार्थो धनुस्तस्य भल्लेन निशितेन च ।चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् ॥ १२ ॥
अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः ।व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ॥ १३ ॥
तस्य निर्मुच्यमानस्य कवचात्काय आबभौ ।समये मुच्यमानस्य सर्पस्येव तनुर्यथा ॥ १४ ॥
छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् ।चकार गौतमः सज्यं तदद्भुतमिवाभवत् ॥ १५ ॥
स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा ।एवमन्यानि चापानि बहूनि कृतहस्तवत् ।शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ॥ १६ ॥
स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् ।प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव ॥ १७ ॥
तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् ।वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ।सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ॥ १८ ॥
युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः ।तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ॥ १९ ॥
ततः पार्थो महातेजा विशिखानग्नितेजसः ।चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ॥ २० ॥
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् ।षष्ठेन च शिरः कायाच्छरेण रथसारथेः ॥ २१ ॥
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः ।द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ॥ २२ ॥
ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव ।त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् ॥ २३ ॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ॥ २४ ॥
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता ।अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ॥ २५ ॥
ततो योधाः परीप्सन्तः शारद्वतममर्षणम् ।सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ॥ २६ ॥
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः ।यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् ॥ २७ ॥
ततः कृपमुपादाय विरथं ते नरर्षभाः ।अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात् ॥ २८ ॥
« »