Click on words to see what they mean.

वैशंपायन उवाच ।ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः ।बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ॥ १ ॥
ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः ।वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ॥ २ ॥
विध्यन्तो मृगजातानि महेष्वासा महाबलाः ।उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु ॥ ३ ॥
अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः ।लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् ॥ ४ ॥
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ।पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च ॥ ५ ॥
व्यक्तं दूरे विराटस्य राजधानी भविष्यति ।वसामेह परां रात्रिं बलवान्मे परिश्रमः ॥ ६ ॥
युधिष्ठिर उवाच ।धनंजय समुद्यम्य पाञ्चालीं वह भारत ।राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ॥ ७ ॥
वैशंपायन उवाच ।तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव ।संप्राप्य नगराभ्याशमवतारयदर्जुनः ॥ ८ ॥
स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत् ।क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् ॥ ९ ॥
सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि ।समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ १० ॥
ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः ।एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा ॥ ११ ॥
अर्जुन उवाच ।इयं कूटे मनुष्येन्द्र गहना महती शमी ।भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ १२ ॥
न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव ।उत्पथे हि वने जाता मृगव्यालनिषेविते ॥ १३ ॥
समासज्यायुधान्यस्यां गच्छामो नगरं प्रति ।एवमत्र यथाजोषं विहरिष्याम भारत ॥ १४ ॥
वैशंपायन उवाच ।एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम् ।प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥ १५ ॥
येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ॥ १६ ॥
तदुदारं महाघोषं सपत्नगणसूदनम् ।अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम् ॥ १७ ॥
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ॥ १८ ॥
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः ।प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ॥ १९ ॥
निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे ।पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ २० ॥
सैन्धवं येन राजानं परामृषत चानघ ।ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ २१ ॥
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः ।तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि ॥ २२ ॥
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ २३ ॥
खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान् ।विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह ॥ २४ ॥
तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम् ।यानि तस्यावकाशानि दृढरूपाण्यमन्यत ॥ २५ ॥
यत्र चापश्यत स वै तिरो वर्षाणि वर्षति ।तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥ २६ ॥
शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः ।विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ।आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् ॥ २७ ॥
अशीतिशतवर्षेयं माता न इति वादिनः ।कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च ।समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ॥ २८ ॥
आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः ।आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ॥ २९ ॥
जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥ ३० ॥
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् ।अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ ३१ ॥
« »