Click on words to see what they mean.

वैशंपायन उवाच ।स शत्रुसेनां तरसा प्रणुद्य गास्ता विजित्याथ धनुर्धराग्र्यः ।दुर्योधनायाभिमुखं प्रयातो भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ॥ १ ॥
गोषु प्रयातासु जवेन मत्स्यान्किरीटिनं कृतकार्यं च मत्वा ।दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाभिपेतुः ॥ २ ॥
तेषामनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा बहुलध्वजानि ।मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥ ३ ॥
एतेन तूर्णं प्रतिपादयेमाञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् ।जवेन सर्वेण कुरु प्रयत्नमासादयैतद्रथसिंहवृन्दम् ॥ ४ ॥
गजो गजेनेव मया दुरात्मा यो योद्धुमाकाङ्क्षति सूतपुत्रः ।तमेव मां प्रापय राजपुत्र दुर्योधनापाश्रयजातदर्पम् ॥ ५ ॥
स तैर्हयैर्वातजवैर्बृहद्भिः पुत्रो विराटस्य सुवर्णकक्ष्यैः ।विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ॥ ६ ॥
तं चित्रसेनो विशिखैर्विपाठैः संग्रामजिच्छत्रुसहो जयश्च ।प्रत्युद्ययुर्भारतमापतन्तं महारथाः कर्णमभीप्समानाः ॥ ७ ॥
ततः स तेषां पुरुषप्रवीरः शरासनार्चिः शरवेगतापः ।व्रातान्रथानामदहत्स मन्युर्वनं यथाग्निः कुरुपुंगवानाम् ॥ ८ ॥
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥ ९ ॥
ततो विकर्णस्य धनुर्विकृष्य जाम्बूनदाग्र्योपचितं दृढज्यम् ।अपातयद्ध्वजमस्य प्रमथ्य छिन्नध्वजः सोऽप्यपयाज्जवेन ॥ १० ॥
तं शात्रवाणां गणबाधितारं कर्माणि कुर्वाणममानुषाणि ।शत्रुंतपः कोपममृष्यमाणः समर्पयत्कूर्मनखेन पार्थम् ॥ ११ ॥
स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम् ।शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥ १२ ॥
ततः स विद्धो भरतर्षभेण बाणेन गात्रावरणातिगेन ।गतासुराजौ निपपात भूमौ नगो नगाग्रादिव वातरुग्णः ॥ १३ ॥
रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः ।चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥ १४ ॥
हतास्तु पार्थेन नरप्रवीरा भूमौ युवानः सुषुपुः सुवेषाः ।वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन संख्ये ।सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवताः प्रवृद्धाः ॥ १५ ॥
तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा पुरुषप्रवीरः ।चचार संख्ये प्रदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ १६ ॥
प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वात्यनिलो नुदन्खे ।तथा सपत्नान्विकिरन्किरीटी चचार संख्येऽतिरथो रथेन ॥ १७ ॥
शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्त्वः ।एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥ १८ ॥
तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमथाददानः ।प्रगृह्य दन्ताविव नागराजो महर्षभं व्याघ्र इवाभ्यधावत् ॥ १९ ॥
स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः शीघ्रमुपाजघान ।विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्निजघ्ने ॥ २० ॥
स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् ।आकर्णपूर्णं च धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ॥ २१ ॥
अथास्य बाहूरुशिरोललाटं ग्रीवां रथाङ्गानि परावमर्दी ।स्थितस्य बाणैर्युधि निर्बिभेद गाण्डीवमुक्तैरशनिप्रकाशैः ॥ २२ ॥
स पार्थमुक्तैर्विशिखैः प्रणुन्नो गजो गजेनेव जितस्तरस्वी ।विहाय संग्रामशिरः प्रयातो वैकर्तनः पाण्डवबाणतप्तः ॥ २३ ॥
« »