Click on words to see what they mean.

वैशंपायन उवाच ।तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।उपायादर्जुनस्तूर्णं रथघोषेण नादयन् ॥ १ ॥
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥ २ ॥
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ।महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ॥ ३ ॥
एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते ।एष घोषः सजलदो रोरवीति च वानरः ॥ ४ ॥
एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् ।उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ॥ ५ ॥
इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ ।अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ॥ ६ ॥
निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् ।अभिवादयते पार्थः श्रोत्रे च परिपृच्छति ॥ ७ ॥
अर्जुन उवाच ।इषुपाते च सेनाया हयान्संयच्छ सारथे ।यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ॥ ८ ॥
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् ।तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ॥ ९ ॥
एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् ।भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः ॥ १० ॥
राजानं नात्र पश्यामि गाः समादाय गच्छति ।दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ॥ ११ ॥
उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः ।तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ।तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ॥ १२ ॥
वैशंपायन उवाच ।एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः ।नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः ।अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः ॥ १३ ॥
उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने ।अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् ॥ १४ ॥
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति ।तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः ॥ १५ ॥
न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे ।अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् ॥ १६ ॥
किं नो गावः करिष्यन्ति धनं वा विपुलं तथा ।दुर्योधनः पार्थजले पुरा नौरिव मज्जति ॥ १७ ॥
तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः ।शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ॥ १८ ॥
कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः ।नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः ॥ १९ ॥
तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः ।शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा ॥ २० ॥
ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् ।विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् ॥ २१ ॥
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ॥ २२ ॥
ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः ।गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् ॥ २३ ॥
« »