Click on words to see what they mean.

अश्वत्थामोवाच ।न च तावज्जिता गावो न च सीमान्तरं गताः ।न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ १ ॥
संग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् ।विजित्य च परां भूमिं नाहुः किंचन पौरुषम् ॥ २ ॥
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ ३ ॥
चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः ।धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ ४ ॥
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च ।क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् ।वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् ॥ ५ ॥
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि ॥ ६ ॥
प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति ।तथा नृशंसरूपेण यथान्यः प्राकृतो जनः ॥ ७ ॥
तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः ।निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ ८ ॥
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनंजयम् ।नकुलं सहदेवं च धनं येषां त्वया हृतम् ॥ ९ ॥
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः ।इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ॥ १० ॥
तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया ।एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला ॥ ११ ॥
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा ।कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् ॥ १२ ॥
यथाशक्ति मनुष्याणां शममालक्षयामहे ।अन्येषां चैव सत्त्वानामपि कीटपिपीलिके ॥ १३ ॥
द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति ।दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः ॥ १४ ॥
त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि ।वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ १५ ॥
नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् ।भयादिह न युध्येत कुन्तीपुत्रो धनंजयः ॥ १६ ॥
यं यमेषोऽभिसंक्रुद्धः संग्रामेऽभिपतिष्यति ।वृक्षं गरुडवेगेन विनिहत्य तमेष्यति ॥ १७ ॥
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ १८ ॥
दैवं दैवेन युध्येत मानुषेण च मानुषम् ।अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् ॥ १९ ॥
पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः ।एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ २० ॥
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः ।यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ॥ २१ ॥
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह ॥ २२ ॥
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च ।ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् ॥ २३ ॥
न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः ।अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः ॥ २४ ॥
अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः ।कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनंजयः ॥ २५ ॥
युध्यतां काममाचार्यो नाहं योत्स्ये धनंजयम् ।मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् ॥ २६ ॥
« »