Click on words to see what they mean.

कृप उवाच ।सदैव तव राधेय युद्धे क्रूरतरा मतिः ।नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे ॥ १ ॥
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः ।तेषां युद्धं तु पापिष्ठं वेदयन्ति पुराविदः ॥ २ ॥
देशकालेन संयुक्तं युद्धं विजयदं भवेत् ।हीनकालं तदेवेह फलवन्न भवत्युत ।देशे काले च विक्रान्तं कल्याणाय विधीयते ॥ ३ ॥
आनुकूल्येन कार्याणामन्तरं संविधीयताम् ।भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ॥ ४ ॥
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः ।एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥ ५ ॥
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् ।एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ।अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् ॥ ६ ॥
एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत ।एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः ॥ ७ ॥
एको गन्धर्वराजानं चित्रसेनमरिंदमः ।विजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम् ॥ ८ ॥
तथा निवातकवचाः कालखञ्जाश्च दानवाः ।दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥ ९ ॥
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा ।एकैकेन यथा तेषां भूमिपाला वशीकृताः ॥ १० ॥
इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति ।यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम् ॥ ११ ॥
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम् ।अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि ॥ १२ ॥
अथ वा कुञ्जरं मत्तमेक एव चरन्वने ।अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि ॥ १३ ॥
समिद्धं पावकं वापि घृतमेदोवसाहुतम् ।घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि ॥ १४ ॥
आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम् ।समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम पौरुषम् ॥ १५ ॥
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः ।तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः ॥ १६ ॥
अस्माभिरेष निकृतो वर्षाणीह त्रयोदश ।सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥ १७ ॥
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् ।अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम् ॥ १८ ॥
सह युध्यामहे पार्थमागतं युद्धदुर्मदम् ।सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः ॥ १९ ॥
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम् ।सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः ॥ २० ॥
वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् ।षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः ॥ २१ ॥
व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः ।युध्यामहेऽर्जुनं संख्ये दानवा वासवं यथा ॥ २२ ॥
« »