Click on words to see what they mean.

उत्तर उवाच ।आस्थाय विपुलं वीर रथं सारथिना मया ।कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥ १ ॥
अर्जुन उवाच ।प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव ।सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥ २ ॥
स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह ।युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् ॥ ३ ॥
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ।अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥ ४ ॥
संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम् ।त्रिदण्डतूणसंबाधमनेकध्वजसंकुलम् ॥ ५ ॥
ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि ।नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥ ६ ॥
अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना ।अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥ ७ ॥
उत्तर उवाच ।बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि ।केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ॥ ८ ॥
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् ।निश्चयं चापि दुर्मेधा न गच्छामि कथंचन ॥ ९ ॥
एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च ।केन कर्मविपाकेन क्लीबत्वमिदमागतम् ॥ १० ॥
मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम् ।गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् ॥ ११ ॥
अर्जुन उवाच ।भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् ।चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥ १२ ॥
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः ।समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥ १३ ॥
उत्तर उवाच ।परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा ।न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः ॥ १४ ॥
सहायवानस्मि रणे युध्येयममरैरपि ।साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥ १५ ॥
अहं ते संग्रहीष्यामि हयाञ्शत्रुरथारुजः ।शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ ॥ १६ ॥
दारुको वासुदेवस्य यथा शक्रस्य मातलिः ।तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव ॥ १७ ॥
यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् ।दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः ॥ १८ ॥
योऽयं धुरं धुर्यवरो वामं वहति शोभनः ।तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥ १९ ॥
योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः ।वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् ॥ २० ॥
योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः ।बलाहकादपि मतः स जवे वीर्यवत्तरः ॥ २१ ॥
त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् ।त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम ॥ २२ ॥
वैशंपायन उवाच ।ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान् ।चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे ॥ २३ ॥
कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा ।अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ २४ ॥
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः ।यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः ॥ २५ ॥
सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् ।भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् ॥ २६ ॥
तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव ।यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे ॥ २७ ॥
« »