Click on words to see what they mean.

युधिष्ठिर उवाच ।कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ ।मम चापि यथाबुद्धि रुचितानि विनिश्चयात् ॥ १ ॥
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु ।सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ २ ॥
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ ३ ॥
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः ।पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥ ४ ॥
सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः ।गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ॥ ५ ॥
धौम्य उवाच ।विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ।अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ॥ ६ ॥
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः ।यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ॥ ७ ॥
दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि ।अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ॥ ८ ॥
दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् ।तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ॥ ९ ॥
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् ।आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ॥ १० ॥
अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः ।न तत्रोपविशेज्जातु स राजवसतिं वसेत् ॥ ११ ॥
न चानुशिष्येद्राजानमपृच्छन्तं कदाचन ।तूष्णीं त्वेनमुपासीत काले समभिपूजयन् ॥ १२ ॥
असूयन्ति हि राजानो जनाननृतवादिनः ।तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥ १३ ॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन ।अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥ १४ ॥
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि ।एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ॥ १५ ॥
यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह ।अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् ॥ १६ ॥
यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् ।प्रमादमवहेलां च कोपं च परिवर्जयेत् ॥ १७ ॥
समर्थनासु सर्वासु हितं च प्रियमेव च ।संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ॥ १८ ॥
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च ।अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ॥ १९ ॥
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः ।अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ॥ २० ॥
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् ।स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥ २१ ॥
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः ।रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ।नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ॥ २२ ॥
न च संदर्शने किंचित्प्रवृद्धमपि संजपेत् ।अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ २३ ॥
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् ।यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ॥ २४ ॥
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः ।प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ॥ २५ ॥
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः ।अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ॥ २६ ॥
यस्य कोपो महाबाधः प्रसादश्च महाफलः ।कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ॥ २७ ॥
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् ।सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ॥ २८ ॥
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् ।नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥ २९ ॥
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा ।स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥ ३० ॥
लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः ।असंमूढश्च यो नित्यं स राजवसतिं वसेत् ॥ ३१ ॥
राजानं राजपुत्रं वा संवर्तयति यः सदा ।अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ॥ ३२ ॥
प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः ।न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ॥ ३३ ॥
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः ।उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ॥ ३४ ॥
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः ।न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥ ३५ ॥
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् ।विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ॥ ३६ ॥
अम्लानो बलवाञ्शूरश्छायेवानपगः सदा ।सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥ ३७ ॥
अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ।अहं किं करवाणीति स राजवसतिं वसेत् ॥ ३८ ॥
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥ ३९ ॥
यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् ।दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ॥ ४० ॥
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् ।मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ॥ ४१ ॥
न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत् ।प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ॥ ४२ ॥
यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छति ।तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ॥ ४३ ॥
संवत्सरमिमं तात तथाशीला बुभूषवः ।अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥ ४४ ॥
युधिष्ठिर उवाच ।अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन ।कुन्तीमृते मातरं नो विदुरं च महामतिम् ॥ ४५ ॥
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति ।तारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥ ४६ ॥
वैशंपायन उवाच ।एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः ।अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ॥ ४७ ॥
तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः ।समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥ ४८ ॥
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् ।याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥ ४९ ॥
« »