Click on words to see what they mean.

वैशंपायन उवाच ।ततः शांतनवो भीष्मो भरतानां पितामहः ।श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् ॥ १ ॥
आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् ।हितार्थं स उवाचेमां भारतीं भारतान्प्रति ॥ २ ॥
युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् ।असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा ।भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ॥ ३ ॥
यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् ।सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः ॥ ४ ॥
श्रुतवृत्तोपसंपन्नाः साधुव्रतसमन्विताः ।वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः ॥ ५ ॥
समयं समयज्ञास्ते पालयन्तः शुचिव्रताः ।नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् ॥ ६ ॥
धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः ।न नाशमधिगच्छेयुरिति मे धीयते मतिः ॥ ७ ॥
तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत ।न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ॥ ८ ॥
यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान् ।बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् ॥ ९ ॥
सा त्वियं साधु वक्तव्या न त्वनीतिः कथंचन ।वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥ १० ॥
अवश्यं त्विह धीरेण सतां मध्ये विवक्षता ।यथामति विवक्तव्यं सर्वशो धर्मलिप्सया ॥ ११ ॥
तत्र नाहं तथा मन्ये यथायमितरो जनः ।पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ॥ १२ ॥
नासूयको न चापीर्षुर्नातिवादी न मत्सरी ।भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः ॥ १३ ॥
ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च ।क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥ १४ ॥
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः ।संपन्नसस्या च मही निरीतीका भविष्यति ॥ १५ ॥
रसवन्ति च धान्यानि गुणवन्ति फलानि च ।गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥ १६ ॥
वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् ।भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः ॥ १७ ॥
गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः ।पयांसि दधिसर्पींषि रसवन्ति हितानि च ॥ १८ ॥
गुणवन्ति च पानानि भोज्यानि रसवन्ति च ।तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥ १९ ॥
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः ।दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥ २० ॥
स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे ।देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते ॥ २१ ॥
संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः ।देवतातिथिपूजासु सर्वभूतानुरागवान् ॥ २२ ॥
इष्टदानो महोत्साहः शश्वद्धर्मपरायणः ।अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः ।भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ॥ २३ ॥
त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः ।शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः ।भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः ॥ २४ ॥
धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः ।किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः ॥ २५ ॥
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा ।ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥ २६ ॥
तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः ।गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा ॥ २७ ॥
एवमेतत्तु संचिन्त्य यत्कृतं मन्यसे हितम् ।तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ॥ २८ ॥
« »