Click on words to see what they mean.

द्रौपद्युवाच ।अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि ।शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ १ ॥
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप ।आसे कालमुपासीना सर्वं दुःखं किलार्तवत् ॥ २ ॥
अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ ।इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ ३ ॥
य एव हेतुर्भवति पुरुषस्य जयावहः ।पराजये च हेतुः स इति च प्रतिपालये ॥ ४ ॥
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे ।पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ ५ ॥
न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम् ।इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ ६ ॥
स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति ।इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः ॥ ७ ॥
दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते ।दैवस्य चागमे यत्नस्तेन कार्यो विजानता ॥ ८ ॥
यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम् ।पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते ॥ ९ ॥
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।इमामवस्थां संप्राप्ता का मदन्या जिजीविषेत् ॥ १० ॥
कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत ।पाण्डवेयांश्च संप्राप्तो मम क्लेशो ह्यरिंदम ॥ ११ ॥
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन् ।एवं समुदिता नारी का न्वन्या दुःखिता भवेत् ॥ १२ ॥
नूनं हि बालया धातुर्मया वै विप्रियं कृतम् ।यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ ॥ १३ ॥
वर्णावकाशमपि मे पश्य पाण्डव यादृशम् ।यादृशो मे न तत्रासीद्दुःखे परमके तदा ॥ १४ ॥
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा ।साहं दासत्वमापन्ना न शान्तिमवशा लभे ॥ १५ ॥
नादैविकमिदं मन्ये यत्र पार्थो धनंजयः ।भीमधन्वा महाबाहुरास्ते शान्त इवानलः ॥ १६ ॥
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।विनिपातमिमं मन्ये युष्माकमविचिन्तितम् ॥ १७ ॥
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा ।सा प्रेक्षे मुखमन्यासामवराणां वरा सती ॥ १८ ॥
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् ॥ १९ ॥
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी ।आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी ॥ २० ॥
यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः ।साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ।इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ॥ २१ ॥
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् ।पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा ॥ २२ ॥
वैशंपायन उवाच ।इत्यस्य दर्शयामास किणबद्धौ करावुभौ ॥ २३ ॥
द्रौपद्युवाच ।बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन ।साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ॥ २४ ॥
किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा ।नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते ॥ २५ ॥
वैशंपायन उवाच ।सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी ।रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती ॥ २६ ॥
सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः ।हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् ॥ २७ ॥
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा ।अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव ॥ २८ ॥
ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः ।मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ २९ ॥
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ ३० ॥
« »