Click on words to see what they mean.

द्रौपद्युवाच ।इदं तु मे महद्दुःखं यत्प्रवक्ष्यामि भारत ।न मेऽभ्यसूया कर्तव्या दुःखादेतद्ब्रवीम्यहम् ॥ १ ॥
शार्दूलैर्महिषैः सिंहैरागारे युध्यसे यदा ।कैकेय्याः प्रेक्षमाणायास्तदा मे कश्मलो भवेत् ॥ २ ॥
प्रेक्षासमुत्थिता चापि कैकेयी ताः स्त्रियो वदेत् ।प्रेक्ष्य मामनवद्याङ्गी कश्मलोपहतामिव ॥ ३ ॥
स्नेहात्संवासजान्मन्ये सूदमेषा शुचिस्मिता ।योध्यमानं महावीर्यैरिमं समनुशोचति ॥ ४ ॥
कल्याणरूपा सैरन्ध्री बल्लवश्चातिसुन्दरः ।स्त्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ ॥ ५ ॥
सैरन्ध्री प्रियसंवासान्नित्यं करुणवेदिनी ।अस्मिन्राजकुले चेमौ तुल्यकालनिवासिनौ ॥ ६ ॥
इति ब्रुवाणा वाक्यानि सा मां नित्यमवेदयत् ।क्रुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां त्वयि ॥ ७ ॥
तस्यां तथा ब्रुवत्यां तु दुःखं मां महदाविशत् ।शोके यौधिष्ठिरे मग्ना नाहं जीवितुमुत्सहे ॥ ८ ॥
यः सदेवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ॥ ९ ॥
योऽतर्पयदमेयात्मा खाण्डवे जातवेदसम् ।सोऽन्तःपुरगतः पार्थः कूपेऽग्निरिव संवृतः ॥ १० ॥
यस्माद्भयममित्राणां सदैव पुरुषर्षभात् ।स लोकपरिभूतेन वेषेणास्ते धनंजयः ॥ ११ ॥
यस्य ज्यातलनिर्घोषात्समकम्पन्त शत्रवः ।स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते ॥ १२ ॥
किरीटं सूर्यसंकाशं यस्य मूर्धनि शोभते ।वेणीविकृतकेशान्तः सोऽयमद्य धनंजयः ॥ १३ ॥
यस्मिन्नस्त्राणि दिव्यानि समस्तानि महात्मनि ।आधारः सर्वविद्यानां स धारयति कुण्डले ॥ १४ ॥
यं स्म राजसहस्राणि तेजसाप्रतिमानि वै ।समरे नातिवर्तन्ते वेलामिव महार्णवः ॥ १५ ॥
सोऽयं राज्ञो विराटस्य कन्यानां नर्तको युवा ।आस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः ॥ १६ ॥
यस्य स्म रथघोषेण समकम्पत मेदिनी ।सपर्वतवना भीम सहस्थावरजङ्गमा ॥ १७ ॥
यस्मिञ्जाते महाभागे कुन्त्याः शोको व्यनश्यत ।स शोचयति मामद्य भीमसेन तवानुजः ॥ १८ ॥
भूषितं तमलंकारैः कुण्डलैः परिहाटकैः ।कम्बुपाणिनमायान्तं दृष्ट्वा सीदति मे मनः ॥ १९ ॥
तं वेणीकृतकेशान्तं भीमधन्वानमर्जुनम् ।कन्यापरिवृतं दृष्ट्वा भीम सीदति मे मनः ॥ २० ॥
यदा ह्येनं परिवृतं कन्याभिर्देवरूपिणम् ।प्रभिन्नमिव मातङ्गं परिकीर्णं करेणुभिः ॥ २१ ॥
मत्स्यमर्थपतिं पार्थं विराटं समुपस्थितम् ।पश्यामि तूर्यमध्यस्थं दिशो नश्यन्ति मे तदा ॥ २२ ॥
नूनमार्या न जानाति कृच्छ्रं प्राप्तं धनंजयम् ।अजातशत्रुं कौरव्यं मग्नं दुर्द्यूतदेविनम् ॥ २३ ॥
तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम् ।गोषु गोवेषमायान्तं पाण्डुभूतास्मि भारत ॥ २४ ॥
सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः ।न विन्दामि महाबाहो सहदेवस्य दुष्कृतम् ।यस्मिन्नेवंविधं दुःखं प्राप्नुयात्सत्यविक्रमः ॥ २५ ॥
दूयामि भरतश्रेष्ठ दृष्ट्वा ते भ्रातरं प्रियम् ।गोषु गोवृषसंकाशं मत्स्येनाभिनिवेशितम् ॥ २६ ॥
संरब्धं रक्तनेपथ्यं गोपालानां पुरोगमम् ।विराटमभिनन्दन्तमथ मे भवति ज्वरः ॥ २७ ॥
सहदेवं हि मे वीरं नित्यमार्या प्रशंसति ।महाभिजनसंपन्नो वृत्तवाञ्शीलवानिति ॥ २८ ॥
ह्रीनिषेधो मधुरवाग्धार्मिकश्च प्रियश्च मे ।स तेऽरण्येषु बोद्धव्यो याज्ञसेनि क्षपास्वपि ॥ २९ ॥
तं दृष्ट्वा व्यापृतं गोषु वत्सचर्मक्षपाशयम् ।सहदेवं युधां श्रेष्ठं किं नु जीवामि पाण्डव ॥ ३० ॥
यस्त्रिभिर्नित्यसंपन्नो रूपेणास्त्रेण मेधया ।सोऽश्वबन्धो विराटस्य पश्य कालस्य पर्ययम् ॥ ३१ ॥
अभ्यकीर्यन्त वृन्दानि दामग्रन्थिमुदीक्षताम् ।विनयन्तं जवेनाश्वान्महाराजस्य पश्यतः ॥ ३२ ॥
अपश्यमेनं श्रीमन्तं मत्स्यं भ्राजिष्णुमुत्तमम् ।विराटमुपतिष्ठन्तं दर्शयन्तं च वाजिनः ॥ ३३ ॥
किं नु मां मन्यसे पार्थ सुखितेति परंतप ।एवं दुःखशताविष्टा युधिष्ठिरनिमित्ततः ॥ ३४ ॥
अतः प्रतिविशिष्टानि दुःखान्यन्यानि भारत ।वर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्यपि ॥ ३५ ॥
युष्मासु ध्रियमाणेषु दुःखानि विविधान्युत ।शोषयन्ति शरीरं मे किं नु दुःखमतः परम् ॥ ३६ ॥
« »