Click on words to see what they mean.

द्रौपद्युवाच ।अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः ।जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि ॥ १ ॥
यन्मां दासीप्रवादेन प्रातिकामी तदानयत् ।सभायां पार्षदो मध्ये तन्मां दहति भारत ॥ २ ॥
पार्थिवस्य सुता नाम का नु जीवेत मादृशी ।अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥ ३ ॥
वनवासगतायाश्च सैन्धवेन दुरात्मना ।परामर्शं द्वितीयं च सोढुमुत्सहते नु का ॥ ४ ॥
मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः ।कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ ५ ॥
एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत ।न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥ ६ ॥
योऽयं राज्ञो विराटस्य कीचको नाम भारत ।सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥ ७ ॥
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि ।नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ ८ ॥
तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् ।कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ ९ ॥
भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम् ।यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥ १० ॥
को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह ।प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥ ११ ॥
यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम् ।सायंप्रातरदेविष्यदपि संवत्सरान्बहून् ॥ १२ ॥
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम् ।अश्वाश्वतरसंघांश्च न जातु क्षयमावहेत् ॥ १३ ॥
सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः ।तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥ १४ ॥
दश नागसहस्राणि पद्मिनां हेममालिनाम् ।यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति ॥ १५ ॥
तथा शतसहस्राणि नृणाममिततेजसाम् ।उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् ॥ १६ ॥
शतं दासीसहस्राणि यस्य नित्यं महानसे ।पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत ॥ १७ ॥
एष निष्कसहस्राणि प्रदाय ददतां वरः ।द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥ १८ ॥
एनं हि स्वरसंपन्ना बहवः सूतमागधाः ।सायंप्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥ १९ ॥
सहस्रमृषयो यस्य नित्यमासन्सभासदः ।तपःश्रुतोपसंपन्नाः सर्वकामैरुपस्थिताः ॥ २० ॥
अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान् ।बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः ॥ २१ ॥
स एष निरयं प्राप्तो मत्स्यस्य परिचारकः ।सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः ॥ २२ ॥
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः ।आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति ॥ २३ ॥
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः ।स वशे विवशो राजा परेषामद्य वर्तते ॥ २४ ॥
प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा ।सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥ २५ ॥
यमुपासन्त राजानः सभायामृषिभिः सह ।तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥ २६ ॥
अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् ।दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् ॥ २७ ॥
उपास्ते स्म सभायां यं कृत्स्ना वीर वसुंधरा ।तमुपासीनमद्यान्यं पश्य भारत भारतम् ॥ २८ ॥
एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत् ।शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥ २९ ॥
« »