Click on words to see what they mean.

कीचक उवाच ।स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम ।स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् ॥ १ ॥
सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके ।आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ॥ २ ॥
अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम् ।एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् ॥ ३ ॥
द्रौपद्युवाच ।अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम् ।पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् ॥ ४ ॥
कीचक उवाच ।अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम् ॥ ५ ॥
वैशंपायन उवाच ।इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत् ।सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् ।सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥ ६ ॥
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत् ।अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् ॥ ७ ॥
ततो योऽसौ तदार्केण राक्षसः संनियोजितः ।स कीचकमपोवाह वातवेगेन भारत ॥ ८ ॥
स पपात ततो भूमौ रक्षोबलसमाहतः ।विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ ९ ॥
तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ ।अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् ॥ १० ॥
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः ।दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ॥ ११ ॥
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट् ।प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् ॥ १२ ॥
सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत् ।अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ॥ १३ ॥
आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम् ।दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥ १४ ॥
द्रौपद्युवाच ।येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन् ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १५ ॥
ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १६ ॥
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम् ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १७ ॥
ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १८ ॥
सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये ।तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥ १९ ॥
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् ।चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ॥ २० ॥
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् ।मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ॥ २१ ॥
क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते ।न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ॥ २२ ॥
मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम् ।यः पश्यन्मां मर्षयति वध्यमानामनागसम् ॥ २३ ॥
न राजन्राजवत्किंचित्समाचरसि कीचके ।दस्यूनामिव धर्मस्ते न हि संसदि शोभते ॥ २४ ॥
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन ।सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥ २५ ॥
नोपालभे त्वां नृपते विराट जनसंसदि ।नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके ।सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ॥ २६ ॥
विराट उवाच ।परोक्षं नाभिजानामि विग्रहं युवयोरहम् ।अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम ॥ २७ ॥
वैशंपायन उवाच ।ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन् ।साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ॥ २८ ॥
सभ्या ऊचुः ।यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा ।परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ २९ ॥
वैशंपायन उवाच ।एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः ।युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ॥ ३० ॥
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम् ।गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् ॥ ३१ ॥
भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः ।शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ ३२ ॥
मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव ।तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ ३३ ॥
अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि ।विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि ।गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ॥ ३४ ॥
द्रौपद्युवाच ।अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी ।तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ॥ ३५ ॥
वैशंपायन उवाच ।इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम् ।केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ॥ ३६ ॥
शुशुभे वदनं तस्या रुदन्त्या विरतं तदा ।मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ॥ ३७ ॥
सुदेष्णोवाच ।कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने ।कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ॥ ३८ ॥
द्रौपद्युवाच ।कीचको मावधीत्तत्र सुराहारीं गतां तव ।सभायां पश्यतो राज्ञो यथैव विजने तथा ॥ ३९ ॥
सुदेष्णोवाच ।घातयामि सुकेशान्ते कीचकं यदि मन्यसे ।योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ॥ ४० ॥
द्रौपद्युवाच ।अन्ये वै तं वधिष्यन्ति येषामागः करोति सः ।मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ॥ ४१ ॥
« »