Click on words to see what they mean.

वैशंपायन उवाच ।वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा ।महारथेषु छन्नेषु मासा दश समत्ययुः ॥ १ ॥
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते ।अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ २ ॥
तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने ।सेनापतिर्विराटस्य ददर्श जलजाननाम् ॥ ३ ॥
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव ।कीचकः कामयामास कामबाणप्रपीडितः ॥ ४ ॥
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै ।प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ ५ ॥
नेयं पुरा जातु मयेह दृष्टा राज्ञो विराटस्य निवेशने शुभा ।रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥ ६ ॥
का देवरूपा हृदयंगमा शुभे आचक्ष्व मे का च कुतश्च शोभना ।चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौषधमद्य मे मतम् ॥ ७ ॥
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम् ।अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ॥ ८ ॥
प्रभूतनागाश्वरथं महाधनं समृद्धियुक्तं बहुपानभोजनम् ।मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥ ९ ॥
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम् ।उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥ १० ॥
इदं च रूपं प्रथमं च ते वयो निरर्थकं केवलमद्य भामिनि ।अधार्यमाणा स्रगिवोत्तमा यथा न शोभसे सुन्दरि शोभना सती ॥ ११ ॥
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥ १२ ॥
द्रौपद्युवाच ।अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे ।विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् ॥ १३ ॥
परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम् ।दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ १४ ॥
परदारे न ते बुद्धिर्जातु कार्या कथंचन ।विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् ॥ १५ ॥
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् ॥ १६ ॥
मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम् ।दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् ॥ १७ ॥
न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम ।ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ १८ ॥
अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि ।यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ।तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ १९ ॥
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि ।तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि मे वराः ॥ २० ॥
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं प्रार्थयसेऽद्य कीचक ।किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥ २१ ॥
« »