Click on words to see what they mean.

जनमेजय उवाच ।एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः ।अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज ॥ १ ॥
वैशंपायन उवाच ।एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।आराधयन्तो राजानं यदकुर्वन्त तच्छृणु ॥ २ ॥
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।तथैव च विराटस्य सपुत्रस्य विशां पते ॥ ३ ॥
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः ।अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ॥ ४ ॥
अज्ञातं च विराटस्य विजित्य वसु धर्मराट् ।भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति ॥ ५ ॥
भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च ।अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे ॥ ६ ॥
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥ ७ ॥
सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः ।दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ ८ ॥
नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् ।तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ ९ ॥
कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।यथा पुनरविज्ञाता तथा चरति भामिनी ॥ १० ॥
एवं संपादयन्तस्ते तथान्योन्यं महारथाः ।प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ॥ ११ ॥
अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः ।आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥ १२ ॥
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ।महाकाया महावीर्याः कालखञ्जा इवासुराः ॥ १३ ॥
वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः ।सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ।असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ ॥ १४ ॥
तेषामेको महानासीत्सर्वमल्लान्समाह्वयत् ।आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ॥ १५ ॥
यदा सर्वे विमनसस्ते मल्ला हतचेतसः ।अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ॥ १६ ॥
चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम् ।न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ॥ १७ ॥
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् ।प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ १८ ॥
बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम् ।ततस्तं वृत्रसंकाशं भीमो मल्लं समाह्वयत् ॥ १९ ॥
तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ ।मत्ताविव महाकायौ वारणौ षष्टिहायनौ ॥ २० ॥
चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा ।विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् ॥ २१ ॥
तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ २२ ॥
भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् ।प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥ २३ ॥
तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते ।विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥ २४ ॥
संहर्षात्प्रददौ वित्तं बहु राजा महामनाः ।बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ॥ २५ ॥
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् ॥ २६ ॥
यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते ।ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ २७ ॥
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः ।योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः ॥ २८ ॥
बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः ।विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ २९ ॥
अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः ।तोषयामास नकुलो राजानं राजसत्तम ॥ ३० ॥
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ।विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो ॥ ३१ ॥
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥ ३२ ॥
« »