Click on words to see what they mean.

वैशंपायन उवाच ।अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराज्ञस्तुरगान्समीक्षतः ।तमापतन्तं ददृशे पृथग्जनो विमुक्तमभ्रादिव सूर्यमण्डलम् ॥ १ ॥
स वै हयानैक्षत तांस्ततस्ततः समीक्षमाणं च ददर्श मत्स्यराट् ।ततोऽब्रवीत्ताननुगानमित्रहा कुतोऽयमायाति नरोऽमरप्रभः ॥ २ ॥
अयं हयान्वीक्षति मामकान्दृढं ध्रुवं हयज्ञो भविता विचक्षणः ।प्रवेश्यतामेष समीपमाशु मे विभाति वीरो हि यथामरस्तथा ॥ ३ ॥
अभ्येत्य राजानममित्रहाब्रवीज्जयोऽस्तु ते पार्थिव भद्रमस्तु च ।हयेषु युक्तो नृप संमतः सदा तवाश्वसूतो निपुणो भवाम्यहम् ॥ ४ ॥
विराट उवाच ।ददामि यानानि धनं निवेशनं ममाश्वसूतो भवितुं त्वमर्हसि ।कुतोऽसि कस्यासि कथं त्वमागतः प्रब्रूहि शिल्पं तव विद्यते च यत् ॥ ५ ॥
नकुल उवाच ।पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ ६ ॥
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ ७ ॥
न कातरं स्यान्मम जातु वाहनं न मेऽस्ति दुष्टा वडवा कुतो हयाः ।जनस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ ८ ॥
विराट उवाच ।यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै ।ये चापि केचिन्मम वाजियोजकास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ ९ ॥
इदं तवेष्टं यदि वै सुरोपम ब्रवीहि यत्ते प्रसमीक्षितं वसु ।न तेऽनुरूपं हयकर्म विद्यते प्रभासि राजेव हि संमतो मम ॥ १० ॥
युधिष्ठिरस्येव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।कथं तु भृत्यैः स विनाकृतो वने वसत्यनिन्द्यो रमते च पाण्डवः ॥ ११ ॥
वैशंपायन उवाच ।तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः ।न चैनमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ॥ १२ ॥
एवं हि मत्स्ये न्यवसन्त पाण्डवा यथाप्रतिज्ञाभिरमोघदर्शनाः ।अज्ञातचर्यां व्यचरन्समाहिताः समुद्रनेमीपतयोऽतिदुःखिताः ॥ १३ ॥
« »