Click on words to see what they mean.

जनमेजय उवाच ।कथं विराटनगरे मम पूर्वपितामहाः ।अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥ १ ॥
वैशंपायन उवाच ।तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः ।गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ॥ २ ॥
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः ।अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ॥ ३ ॥
ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः ।संनिवर्त्यानुजान्सर्वानिति होवाच भारत ॥ ४ ॥
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् ।त्रयोदशोऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः ॥ ५ ॥
स साधु कौन्तेय इतो वासमर्जुन रोचय ।यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ॥ ६ ॥
अर्जुन उवाच ।तस्यैव वरदानेन धर्मस्य मनुजाधिप ।अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ ७ ॥
किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् ।रमणीयानि गुप्तानि तेषां किंचित्स्म रोचय ॥ ८ ॥
सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् ।पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ।दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः ॥ ९ ॥
एतेषां कतमो राजन्निवासस्तव रोचते ।वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् ॥ १० ॥
युधिष्ठिर उवाच ।एवमेतन्महाबाहो यथा स भगवान्प्रभुः ।अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ॥ ११ ॥
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् ।संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् ॥ १२ ॥
मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् ।धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ॥ १३ ॥
विराटनगरे तात संवत्सरमिमं वयम् ।कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ॥ १४ ॥
यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् ।कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः ॥ १५ ॥
अर्जुन उवाच ।नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि ।विराटनृपतेः साधो रंस्यसे केन कर्मणा ॥ १६ ॥
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ।राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ॥ १७ ॥
न दुःखमुचितं किंचिद्राजन्वेद यथा जनः ।स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ १८ ॥
युधिष्ठिर उवाच ।शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः ।विराटमनुसंप्राप्य राजानं पुरुषर्षभम् ॥ १९ ॥
सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः ।कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता ॥ २० ॥
वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह ।कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ॥ २१ ॥
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा ।इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ २२ ॥
इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा ।वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ॥ २३ ॥
« »