Click on words to see what they mean.

लोमश उवाच ।ततः स वज्री बलिभिर्दैवतैरभिरक्षितः ।आससाद ततो वृत्रं स्थितमावृत्य रोदसी ॥ १ ॥
कालकेयैर्महाकायैः समन्तादभिरक्षितम् ।समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः ॥ २ ॥
ततो युद्धं समभवद्देवानां सह दानवैः ।मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् ॥ ३ ॥
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् ॥ ४ ॥
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् ।तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत ॥ ५ ॥
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः ।त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः ॥ ६ ॥
तेषां वेगवतां वेगं सहितानां प्रधावताम् ।न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् ॥ ७ ॥
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः ।वृत्रे विवर्धमाने च कश्मलं महदाविशत् ॥ ८ ॥
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः ।स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् ॥ ९ ॥
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः ।स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः ॥ १० ॥
स समाप्यायितः शक्रो विष्णुना दैवतैः सह ।ऋषिभिश्च महाभागैर्बलवान्समपद्यत ॥ ११ ॥
ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् ।तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम् ॥ १२ ॥
ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् ।भये निमग्नस्त्वरितं मुमोच वज्रं महत्तस्य वधाय राजन् ॥ १३ ॥
स शक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी ।यथा महाञ्शैलवरः पुरस्तात्स मन्दरो विष्णुकरात्प्रमुक्तः ॥ १४ ॥
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् ।वज्रं न मेने स्वकरात्प्रमुक्तं वृत्रं हतं चापि भयान्न मेने ॥ १५ ॥
सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रमभिष्टुवन्तः ।सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् ॥ १६ ॥
ते वध्यमानास्त्रिदशैस्तदानीं समुद्रमेवाविविशुर्भयार्ताः ।प्रविश्य चैवोदधिमप्रमेयं झषाकुलं रत्नसमाकुलं च ॥ १७ ॥
तदा स्म मन्त्रं सहिताः प्रचक्रुस्त्रैलोक्यनाशार्थमभिस्मयन्तः ।तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायाननुवर्णयन्ति ॥ १८ ॥
तेषां तु तत्र क्रमकालयोगाद्घोरा मतिश्चिन्तयतां बभूव ।ये सन्ति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं तु कार्यः ॥ १९ ॥
लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय ।ये सन्ति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः ।तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् ॥ २० ॥
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः ।दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥ २१ ॥
« »