Click on words to see what they mean.

पुलस्त्य उवाच ।अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् ।उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥ १ ॥
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा ।तल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥ २ ॥
करतोयां समासाद्य त्रिरात्रोपोषितो नरः ।अश्वमेधमवाप्नोति कृते पैतामहे विधौ ॥ ३ ॥
गङ्गायास्त्वथ राजेन्द्र सागरस्य च संगमे ।अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ ४ ॥
गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत ।त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् ॥ ५ ॥
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् ।विरजं तीर्थमासाद्य विराजति यथा शशी ॥ ६ ॥
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति ।गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ॥ ७ ॥
शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्शुचिः ।तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ ८ ॥
शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दन ।वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ॥ ९ ॥
ऋषभं तीर्थमासाद्य कोशलायां नराधिप ।वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ॥ १० ॥
कोशलायां समासाद्य कालतीर्थ उपस्पृशेत् ।वृषभैकादशफलं लभते नात्र संशयः ॥ ११ ॥
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः ।गोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥ १२ ॥
ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः ।दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥ १३ ॥
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् ।रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ १४ ॥
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दन ।तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ १५ ॥
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत् ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ १६ ॥
श्रीपर्वते महादेवो देव्या सह महाद्युतिः ।न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ॥ १७ ॥
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः ।अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ १८ ॥
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम् ।वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥ १९ ॥
ततो गच्छेत कावेरीं वृतामप्सरसां गणैः ।तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ २० ॥
ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत् ।तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥ २१ ॥
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् ।समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ २२ ॥
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।भूतयक्षपिशाचाश्च किंनराः समहोरगाः ॥ २३ ॥
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा ।सरितः सागराः शैला उपासन्त उमापतिम् ॥ २४ ॥
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः ।दशाश्वमेधमाप्नोति गाणपत्यं च विन्दति ।उष्य द्वादशरात्रं तु कृतात्मा भवते नरः ॥ २५ ॥
तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् ।त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ॥ २६ ॥
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप ।गायत्रीं पठते यस्तु योनिसंकरजस्तथा ।गाथा वा गीतिका वापि तस्य संपद्यते नृप ॥ २७ ॥
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् ।रूपस्य भागी भवति सुभगश्चैव जायते ॥ २८ ॥
ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः ।मयूरहंससंयुक्तं विमानं लभते नरः ॥ २९ ॥
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम् ।गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् ॥ ३० ॥
वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत् ।वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥ ३१ ॥
ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः ।गोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ॥ ३२ ॥
कुशप्लवनमासाद्य ब्रह्मचारी समाहितः ।त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ॥ ३३ ॥
ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे ।जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ॥ ३४ ॥
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः ।अग्निष्टोमशतं विन्देद्गमनादेव भारत ॥ ३५ ॥
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत् ।जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ॥ ३६ ॥
ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम् ।पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥ ३७ ॥
दण्डकारण्यमासाद्य महाराज उपस्पृशेत् ।गोसहस्रफलं तत्र स्नातमात्रस्य भारत ॥ ३८ ॥
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनः ।न दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥ ३९ ॥
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम् ।रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥ ४० ॥
सप्तगोदावरे स्नात्वा नियतो नियताशनः ।महत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥ ४१ ॥
ततो देवपथं गच्छेन्नियतो नियताशनः ।देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ॥ ४२ ॥
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः ।वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥ ४३ ॥
तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतः ।उपविष्टो महर्षीणामुत्तरीयेषु भारत ॥ ४४ ॥
ओंकारेण यथान्यायं सम्यगुच्चारितेन च ।येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ॥ ४५ ॥
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः ।हरिर्नारायणो देवो महादेवस्तथैव च ॥ ४६ ॥
पितामहश्च भगवान्देवैः सह महाद्युतिः ।भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ ४७ ॥
ततः स चक्रे भगवानृषीणां विधिवत्तदा ।सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥ ४८ ॥
आज्यभागेन वै तत्र तर्पितास्तु यथाविधि ।देवास्त्रिभुवणं याता ऋषयश्च यथासुखम् ॥ ४९ ॥
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम ।पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा ॥ ५० ॥
तत्र मासं वसेद्धीरो नियतो नियताशनः ।ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः ॥ ५१ ॥
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत् ।अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥ ५२ ॥
ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम् ।तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥ ५३ ॥
आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप ।स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥ ५४ ॥
ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते ।मन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् ॥ ५५ ॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।अश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥ ५६ ॥
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् ।यत्र देवो महासेनो नित्यं संनिहितो नृपः ॥ ५७ ॥
पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति ।कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ५८ ॥
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः ।अभिगम्य महादेवं विराजति यथा शशी ॥ ५९ ॥
तत्र कूपो महाराज विश्रुतो भरतर्षभ ।समुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥ ६० ॥
तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् ।नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ ६१ ॥
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् ।यत्र तीर्णो महाराज रामो दाशरथिः पुरा ॥ ६२ ॥
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितः ।विधूतपाप्मा भवति वाजपेयं च विन्दति ॥ ६३ ॥
अभिगम्य महादेवमभ्यर्च्य च नराधिप ।प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ ६४ ॥
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् ।यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥ ६५ ॥
लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा ।सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ ६६ ॥
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे ।तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा ॥ ६७ ॥
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथा ।हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ ६८ ॥
तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवी ।प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥ ६९ ॥
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ।यमुना गङ्गया सार्धं संगता लोकपावनी ॥ ७० ॥
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम् ।प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ॥ ७१ ॥
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथा ।तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥ ७२ ॥
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर ।प्रजापतिमुपासन्ते ऋषयश्च महाव्रताः ।यजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप ॥ ७३ ॥
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ।प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ॥ ७४ ॥
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि ।मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ ७५ ॥
तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः ।पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥ ७६ ॥
एषा यजनभूमिर्हि देवानामपि सत्कृता ।तत्र दत्तं सूक्ष्ममपि महद्भवति भारत ॥ ७७ ॥
न वेदवचनात्तात न लोकवचनादपि ।मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ ७८ ॥
दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।येषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन ॥ ७९ ॥
चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत् ।स्नात एव तदाप्नोति गङ्गायमुनसंगमे ॥ ८० ॥
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम् ।तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ॥ ८१ ॥
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम् ।दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥ ८२ ॥
यत्र गङ्गा महाराज स देशस्तत्तपोवनम् ।सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ८३ ॥
इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥ ८४ ॥
इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम् ।इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् ॥ ८५ ॥
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् ।अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ॥ ८६ ॥
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः ।जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥ ८७ ॥
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च ।मनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥ ८८ ॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः ।ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः ॥ ८९ ॥
एवं त्वमपि कौरव्य विधिनानेन सुव्रत ।व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥ ९० ॥
भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात् ।प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ॥ ९१ ॥
नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः ।स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥ ९२ ॥
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना ।पितरस्तारितास्तात सर्वे च प्रपितामहाः ॥ ९३ ॥
पितामहपुरोगाश्च देवाः सर्षिगणा नृप ।तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ॥ ९४ ॥
अवाप्स्यसि च लोकान्वै वसूनां वासवोपम ।कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् ॥ ९५ ॥
नारद उवाच ।एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः ।प्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ ९६ ॥
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान् ।पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे ॥ ९७ ॥
अनेन विधिना यस्तु पृथिवीं संचरिष्यति ।अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते ॥ ९८ ॥
अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् ।नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ॥ ९९ ॥
रक्षोगणावकीर्णानि तीर्थान्येतानि भारत ।न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ॥ १०० ॥
इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् ।यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ॥ १०१ ॥
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः ।आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः ॥ १०२ ॥
असितो देवलश्चैव मार्कण्डेयोऽथ गालवः ।भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥ १०३ ॥
शौनकः सह पुत्रेण व्यासश्च जपतां वरः ।दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ॥ १०४ ॥
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः ।एभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥ १०५ ॥
एष वै लोमशो नाम देवर्षिरमितद्युतिः ।समेष्यति त्वया चैव तेन सार्धमनुव्रज ॥ १०६ ॥
मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज ।प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ॥ १०७ ॥
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः ।तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥ १०८ ॥
यथा भगीरथो राजा यथा रामश्च विश्रुतः ।तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥ १०९ ॥
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः ।यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ॥ ११० ॥
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा ।तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि ॥ १११ ॥
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन ।ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥ ११२ ॥
वैशंपायन उवाच ।एवमाश्वास्य राजानं नारदो भगवानृषिः ।अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ॥ ११३ ॥
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन् ।तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् ॥ ११४ ॥
« »