Click on words to see what they mean.

पुलस्त्य उवाच ।ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् ।तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ।आसप्तमं कुलं राजन्पुनीते नात्र संशयः ॥ १ ॥
ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् ।अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ॥ २ ॥
सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः ।यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ३ ॥
सिद्धचारणगन्धर्वाः किंनराः समहोरगाः ।तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥ ४ ॥
ततो हि सा सरिच्छ्रेष्ठा नदीनामुत्तमा नदी ।प्लक्षाद्देवी स्रुता राजन्महापुण्या सरस्वती ॥ ५ ॥
तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले ।अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥ ६ ॥
ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ।षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥ ७ ॥
कपिलानां सहस्रं च वाजिमेधं च विन्दति ।तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥ ८ ॥
सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत ।अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ९ ॥
त्रिशूलखातं तत्रैव तीर्थमासाद्य भारत ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।गाणपत्यं स लभते देहं त्यक्त्वा न संशयः ॥ १० ॥
ततो गच्छेत राजेन्द्र देव्याः स्थानं सुदुर्लभम् ।शाकंभरीति विख्याता त्रिषु लोकेषु विश्रुता ॥ ११ ॥
दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत ।आहारं सा कृतवती मासि मासि नराधिप ॥ १२ ॥
ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः ।आतिथ्यं च कृतं तेषां शाकेन किल भारत ।ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥ १३ ॥
शाकंभरीं समासाद्य ब्रह्मचारी समाहितः ।त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः ॥ १४ ॥
शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् ।तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥ १५ ॥
ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् ।यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ॥ १६ ॥
वरांश्च सुबहूँल्लेभे दैवतेषु सुदुर्लभान् ।उक्तश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥ १७ ॥
अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि ।त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः ॥ १८ ॥
तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् ।अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ १९ ॥
धूमावतीं ततो गच्छेत्त्रिरत्रोपोषितो नरः ।मनसा प्रार्थितान्कामाँल्लभते नात्र संशयः ॥ २० ॥
देव्यास्तु दक्षिणार्धेन रथावर्तो नराधिप ।तत्रारोहेत धर्मज्ञ श्रद्दधानो जितेन्द्रियः ।महादेवप्रसादाद्धि गच्छेत परमां गतिम् ॥ २१ ॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् ।तत्र स्नात्वा नरव्याघ्र न शोचति नराधिप ॥ २२ ॥
ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् ।स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ॥ २३ ॥
तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः ।पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ॥ २४ ॥
सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् ।देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते ॥ २५ ॥
ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ २६ ॥
कपिलावटं च गच्छेत तीर्थसेवी नराधिप ।उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥ २७ ॥
नागराजस्य राजेन्द्र कपिलस्य महात्मनाः ।तीर्थं कुरुवरश्रेष्ठ सर्वलोकेषु विश्रुतम् ॥ २८ ॥
तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप ।कपिलानां सहस्रस्य फलं प्राप्नोति मानवः ॥ २९ ॥
ततो ललितिकां गच्छेच्छंतनोस्तीर्थमुत्तमम् ।तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ ३० ॥
गङ्गासंगमयोश्चैव स्नाति यः संगमे नरः ।दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥ ३१ ॥
ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् ।सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ ३२ ॥
रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप ।तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ ३३ ॥
गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे ।स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ॥ ३४ ॥
भद्रकर्णेश्वरं गत्वा देवमर्च्य यथाविधि ।न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३५ ॥
ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् ।गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३६ ॥
अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप ।सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ।गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् ॥ ३७ ॥
ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३८ ॥
यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने ।अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ॥ ३९ ॥
दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ ४० ॥
सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् ।तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् ॥ ४१ ॥
अथ वेदीं समासाद्य नरः परमदुर्गमाम् ।अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ॥ ४२ ॥
ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत ।वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ ४३ ॥
ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते ।यदि तत्र वसेन्मासं शाकाहारो नराधिप ॥ ४४ ॥
भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् ।गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥ ४५ ॥
कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत ।अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ॥ ४६ ॥
ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् ।उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् ॥ ४७ ॥
महाश्रमे वसेद्रात्रिं सर्वपापप्रमोचने ।एककालं निराहारो लोकानावसते शुभान् ॥ ४८ ॥
षष्ठकालोपवासेन मासमुष्य महालये ।सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् ॥ ४९ ॥
अथ वेतसिकां गत्वा पितामहनिषेविताम् ।अश्वमेधमवाप्नोति गच्छेच्चौशनसीं गतिम् ॥ ५० ॥
अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् ।रूपस्य भागी भवति दृष्टमेतत्पुरातने ॥ ५१ ॥
ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः ।पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ ५२ ॥
ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् ।तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः ॥ ५३ ॥
नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति ।प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥ ५४ ॥
तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः ।पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत ॥ ५५ ॥
अभिषेककृतस्तत्र नियतो नियताशनः ।गवामयस्य यज्ञस्य फलं प्राप्नोति भारत ।पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥ ५६ ॥
यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः ।स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः ।नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम ॥ ५७ ॥
गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः ।वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते ॥ ५८ ॥
सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः ।सारस्वतेषु लोकेषु मोदते नात्र संशयः ॥ ५९ ॥
ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः ।देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ६० ॥
ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् ।पितृदेवार्चनरतो वाजपेयमवाप्नुयात् ॥ ६१ ॥
विमलाशोकमासाद्य विराजति यथा शशी ।तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ ६२ ॥
गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् ।यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ॥ ६३ ॥
देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा ।रामस्य च प्रसादेन व्यवसायाच्च भारत ॥ ६४ ॥
तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप ।सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ६५ ॥
रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन ।अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥ ६६ ॥
शतसाहस्रिकं तत्र तीर्थं भरतसत्तम ।तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ।गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥ ६७ ॥
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् ।कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ।गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः ॥ ६८ ॥
ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् ।कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् ॥ ६९ ॥
मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ।गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते ।अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥ ७० ॥
ततो गयां समासाद्य ब्रह्मचारी जितेन्द्रियः ।अश्वमेधमवाप्नोति गमनादेव भारत ॥ ७१ ॥
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥ ७२ ॥
महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ।अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ ७३ ॥
ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् ।पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् ॥ ७४ ॥
तस्मिन्सरसि राजेन्द्र ब्रह्मणो यूप उच्छ्रितः ।यूपं प्रदक्षिणं कृत्वा वाजपेयफलं लभेत् ॥ ७५ ॥
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् ।एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ।सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ॥ ७६ ॥
तत्र चिह्नं महाराज अद्यापि हि न संशयः ।कपिला सह वत्सेन पर्वते विचरत्युत ।सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥ ७७ ॥
तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम ।यत्किंचिदशुभं कर्म तत्प्रणश्यति भारत ॥ ७८ ॥
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ।स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥ ७९ ॥
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ ८० ॥
गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् ।सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ ८१ ॥
तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः ।उपास्ता च भवेत्संध्या तेन द्वादशवार्षिकी ॥ ८२ ॥
योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ ।तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् ॥ ८३ ॥
कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः ।पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ ८४ ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ८५ ॥
ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप ।अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥ ८६ ॥
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः ।यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ।अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ॥ ८७ ॥
ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ।तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् ।राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ८८ ॥
ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप ।उपस्पृश्य तपोदेषु काक्षीवानिव मोदते ॥ ८९ ॥
यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः ।यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया ॥ ९० ॥
मणिनागं ततो गत्वा गोसहस्रफलं लभेत् ।नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ॥ ९१ ॥
दष्टस्याशीविषेणापि न तस्य क्रमते विषम् ।तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥ ९२ ॥
ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप ।अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ।अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् ॥ ९३ ॥
तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः ।तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥ ९४ ॥
जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः ।तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ ९५ ॥
ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् ।वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥ ९६ ॥
गण्डकीं तु समासाद्य सर्वतीर्थजलोद्भवाम् ।वाजपेयमवाप्नोति सूर्यलोकं च गच्छति ॥ ९७ ॥
ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् ।गुह्यकेषु महाराज मोदते नात्र संशयः ॥ ९८ ॥
कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् ।पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति ॥ ९९ ॥
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ।अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥ १०० ॥
अथ माहेश्वरीं धारां समासाद्य नराधिप ।अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ १०१ ॥
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ।न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ १०२ ॥
महेश्वरपदं गच्छेद्ब्रह्मचारी समाहितः ।महेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥ १०३ ॥
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ।कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना ।ह्रियमाणाहृता राजन्विष्णुना प्रभविष्णुना ॥ १०४ ॥
तत्राभिषेकं कुर्वाणस्तीर्थकोट्यां युधिष्ठिर ।पुण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ॥ १०५ ॥
ततो गच्छेत राजेन्द्र स्थानं नारायणस्य तु ।सदा संनिहितो यत्र हरिर्वसति भारत ।शालग्राम इति ख्यातो विष्णोरद्भुतकर्मणः ॥ १०६ ॥
अभिगम्य त्रिलोकेशं वरदं विष्णुमव्ययम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ १०७ ॥
तत्रोदपानो धर्मज्ञ सर्वपापप्रमोचनः ।समुद्रास्तत्र चत्वारः कूपे संनिहिताः सदा ।तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवाप्नुयात् ॥ १०८ ॥
अभिगम्य महादेवं वरदं विष्णुमव्ययम् ।विराजति यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥ १०९ ॥
जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः ।जातिस्मरत्वं प्राप्नोति स्नात्वा तत्र न संशयः ॥ ११० ॥
वटेश्वरपुरं गत्वा अर्चयित्वा तु केशवम् ।ईप्सिताँल्लभते कामानुपवासान्न संशयः ॥ १११ ॥
ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् ।अभिवाद्य हरिं देवं न दुर्गतिमवाप्नुयात् ॥ ११२ ॥
भरतस्याश्रमं गत्वा सर्वपापप्रमोचनम् ।कौशिकीं तत्र सेवेत महापातकनाशिनीम् ।राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ११३ ॥
ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् ।तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ ११४ ॥
अथ ज्येष्ठिलमासाद्य तीर्थं परमसंमतम् ।उपोष्य रजनीमेकामग्निष्टोमफलं लभेत् ॥ ११५ ॥
तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम् ।मित्रावरुणयोर्लोकानाप्नोति पुरुषर्षभ ॥ ११६ ॥
कन्यासंवेद्यमासाद्य नियतो नियताशनः ।मनोः प्रजापतेर्लोकानाप्नोति भरतर्षभ ॥ ११७ ॥
कन्यायां ये प्रयच्छन्ति पानमन्नं च भारत ।तदक्षयमिति प्राहुरृषयः संशितव्रताः ॥ ११८ ॥
निश्चीरां च समासाद्य त्रिषु लोकेषु विश्रुताम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ११९ ॥
ये तु दानं प्रयच्छन्ति निश्चीरासंगमे नराः ।ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥ १२० ॥
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।तत्राभिषेकं कुर्वाणो वाजपेयमवाप्नुयात् ॥ १२१ ॥
देवकूटं समासाद्य ब्रह्मर्षिगणसेवितम् ।अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ १२२ ॥
ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् ।यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः ॥ १२३ ॥
तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ ।अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ १२४ ॥
सर्वतीर्थवरे चैव यो वसेत महाह्रदे ।न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् ॥ १२५ ॥
कुमारमभिगत्वा च वीराश्रमनिवासिनम् ।अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥ १२६ ॥
अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् ।अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते ॥ १२७ ॥
पितामहसरो गत्वा शैलराजप्रतिष्ठितम् ।तत्राभिषेकं कुर्वाणो अग्निष्टोमफलं लभेत् ॥ १२८ ॥
पितामहस्य सरसः प्रस्रुता लोकपावनी ।कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥ १२९ ॥
यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति ।षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥ १३० ॥
शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् ।समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् ॥ १३१ ॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥ १३२ ॥
ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः ।अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥ १३३ ॥
नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् ।नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ॥ १३४ ॥
कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः ।त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥ १३५ ॥
उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः ।कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥ १३६ ॥
स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः ।जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने ॥ १३७ ॥
सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः ।सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥ १३८ ॥
ऋषभद्वीपमासाद्य सेव्यं क्रौञ्चनिषूदनम् ।सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ १३९ ॥
औद्दालकं महाराज तीर्थं मुनिनिषेवितम् ।तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ॥ १४० ॥
धर्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् ।वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥ १४१ ॥
तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः ।दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् ॥ १४२ ॥
लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् ।वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥ १४३ ॥
« »