Click on words to see what they mean.

पुलस्त्य उवाच ।ततो गच्छेत राजेन्द्र कुरुक्षेत्रमभिष्टुतम् ।पापेभ्यो विप्रमुच्यन्ते तद्गताः सर्वजन्तवः ॥ १ ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।य एवं सततं ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥ २ ॥
तत्र मासं वसेद्वीर सरस्वत्यां युधिष्ठिर ।यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ ३ ॥
गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ।ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ ४ ॥
मनसाप्यभिकामस्य कुरुक्षेत्रं युधिष्ठिर ।पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति ॥ ५ ॥
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह ।राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ६ ॥
ततो मचक्रुकं राजन्द्वारपालं महाबलम् ।यक्षं समभिवाद्यैव गोसहस्रफलं लभेत् ॥ ७ ॥
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् ।सततं नाम राजेन्द्र यत्र संनिहितो हरिः ॥ ८ ॥
तत्र स्नात्वार्चयित्वा च त्रिलोकप्रभवं हरिम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ९ ॥
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ १० ॥
पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् ।ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप ।दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ॥ ११ ॥
सर्पदर्वीं समासाद्य नागानां तीर्थमुत्तमम् ।अग्निष्टोममवाप्नोति नागलोकं च विन्दति ॥ १२ ॥
ततो गच्छेत धर्मज्ञ द्वारपालं तरन्तुकम् ।तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ १३ ॥
ततः पञ्चनदं गत्वा नियतो नियताशनः ।कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।अश्विनोस्तीर्थमासाद्य रूपवानभिजायते ॥ १४ ॥
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ।विष्णुर्वाराहरूपेण पूर्वं यत्र स्थितोऽभवत् ।तत्र स्नात्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ॥ १५ ॥
ततो जयन्त्या राजेन्द्र सोमतीर्थं समाविशेत् ।स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ॥ १६ ॥
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ।कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ।पुण्डरीकमवाप्नोति कृतशौचो भवेन्नरः ॥ १७ ॥
ततो मुञ्जवटं नाम महादेवस्य धीमतः ।तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ॥ १८ ॥
तत्रैव च महाराज यक्षी लोकपरिश्रुता ।तां चाभिगम्य राजेन्द्र पुण्याँल्लोकानवाप्नुयात् ॥ १९ ॥
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ ।प्रदक्षिणमुपावृत्य तीर्थसेवी समाहितः ॥ २० ॥
संमिते पुष्कराणां च स्नात्वार्च्य पितृदेवताः ।जामदग्न्येन रामेण आहृते वै महात्मना ।कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ॥ २१ ॥
ततो रामह्रदान्गच्छेत्तीर्थसेवी नराधिप ।यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा ।क्षत्रमुत्साद्य वीर्येण ह्रदाः पञ्च निवेशिताः ॥ २२ ॥
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ।पितरस्तर्पिताः सर्वे तथैव च पितामहाः ।ततस्ते पितरः प्रीता राममूचुर्महीपते ॥ २३ ॥
राम राम महाभाग प्रीताः स्म तव भार्गव ।अनया पितृभक्त्या च विक्रमेण च ते विभो ।वरं वृणीष्व भद्रं ते किमिच्छसि महाद्युते ॥ २४ ॥
एवमुक्तः स राजेन्द्र रामः प्रहरतां वरः ।अब्रवीत्प्राञ्जलिर्वाक्यं पितॄन्स गगने स्थितान् ॥ २५ ॥
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ।पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ॥ २६ ॥
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ।ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥ २७ ॥
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ।प्रत्यूचुः परमप्रीता रामं हर्षसमन्विताः ॥ २८ ॥
तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः ।यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ २९ ॥
ततश्च पापान्मुक्तस्त्वं कर्मभिस्ते च पातिताः ।ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥ ३० ॥
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ।पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ।ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् ॥ ३१ ॥
एवं दत्त्वा वरान्राजन्रामस्य पितरस्तदा ।आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्दधुस्तदा ॥ ३२ ॥
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ।राममभ्यर्च्य राजेन्द्र लभेद्बहु सुवर्णकम् ॥ ३३ ॥
वंशमूलकमासाद्य तीर्थसेवी कुरूद्वह ।स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ॥ ३४ ॥
कायशोधनमासाद्य तीर्थं भरतसत्तम ।शरीरशुद्धिः स्नातस्य तस्मिंस्तीर्थे न संशयः ।शुद्धदेहश्च संयाति शुभाँल्लोकाननुत्तमान् ॥ ३५ ॥
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥ ३६ ॥
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।स्नात्वा तीर्थवरे राजँल्लोकानुद्धरते स्वकान् ।श्रीतीर्थं च समासाद्य विन्दते श्रियमुत्तमाम् ॥ ३७ ॥
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ।तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ।कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ ३८ ॥
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ।अर्चयित्वा पितॄन्देवानुपवासपरायणः ।अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ ३९ ॥
गवांभवनमासाद्य तीर्थसेवी यथाक्रमम् ।तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ ४० ॥
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह ।देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ ४१ ॥
ततो गच्छेत राजेन्द्र द्वारपालमरन्तुकम् ।तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ।तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥ ४२ ॥
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप ।ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥ ४३ ॥
ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् ।यत्र संनिहिता नित्यं पितरो दैवतैः सह ॥ ४४ ॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।अश्वमेधमवाप्नोति पितृलोकं च गच्छति ॥ ४५ ॥
ततोऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् ।कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ।सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६ ॥
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत ।प्रजा विवर्धते राजन्ननन्तां चाश्नुते श्रियम् ॥ ४७ ॥
ततः शीतवनं गच्छेन्नियतो नियताशनः ।तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ॥ ४८ ॥
पुनाति दर्शनादेव दण्डेनैकं नराधिप ।केशानभ्युक्ष्य वै तस्मिन्पूतो भवति भारत ॥ ४९ ॥
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् ।यत्र विप्रा नरव्याघ्र विद्वांसस्तीर्थतत्पराः ॥ ५० ॥
श्वानलोमापनयने तीर्थे भरतसत्तम ।प्राणायामैर्निर्हरन्ति श्वलोमानि द्विजोत्तमाः ॥ ५१ ॥
पूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् ।दशाश्वमेधिकं चैव तस्मिंस्तीर्थे महीपते ।तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥ ५२ ॥
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ।यत्र कृष्णमृगा राजन्व्याधेन परिपीडिताः ।अवगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ॥ ५३ ॥
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ।सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ५४ ॥
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ।आपगा नाम विख्याता नदी सिद्धनिषेविता ॥ ५५ ॥
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः ।देवान्पितॄंश्च उद्दिश्य तस्य धर्मफलं महत् ।एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ ५६ ॥
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ।उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ॥ ५७ ॥
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानमुत्तमम् ।ब्रह्मोदुम्बरमित्येव प्रकाशं भुवि भारत ॥ ५८ ॥
तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव ।केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ॥ ५९ ॥
ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ।सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ ६० ॥
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ।अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः ॥ ६१ ॥
ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् ।कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् ।लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ॥ ६२ ॥
तिस्रः कोट्यस्तु तीर्थानां सरके कुरुनन्दन ।रुद्रकोटिस्तथा कूपे ह्रदेषु च महीपते ।इलास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ ६३ ॥
तत्र स्नात्वार्चयित्वा च पितॄन्देवांश्च भारत ।न दुर्गतिमवाप्नोति वाजपेयं च विन्दति ॥ ६४ ॥
किंदाने च नरः स्नात्वा किंजप्ये च महीपते ।अप्रमेयमवाप्नोति दानं जप्यं च भारत ॥ ६५ ॥
कलश्यां चाप्युपस्पृश्य श्रद्दधानो जितेन्द्रियः ।अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ६६ ॥
सरकस्य तु पूर्वेण नारदस्य महात्मनः ।तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् ॥ ६७ ॥
तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत ।नारदेनाभ्यनुज्ञातो लोकान्प्राप्नोति दुर्लभान् ॥ ६८ ॥
शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् ।तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ॥ ६९ ॥
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥ ७० ॥
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ।सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ॥ ७१ ॥
ततो गच्छेत राजेन्द्र फलकीवनमुत्तमम् ।यत्र देवाः सदा राजन्फलकीवनमाश्रिताः ।तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् ॥ ७२ ॥
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ।अग्निष्टोमातिरात्राभ्यां फलं विन्दति भारत ॥ ७३ ॥
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम ।गोसहस्रस्य राजेन्द्र फलं प्राप्नोति मानवः ॥ ७४ ॥
पाणिखाते नरः स्नात्वा तर्पयित्वा च देवताः ।राजसूयमवाप्नोति ऋषिलोकं च गच्छति ॥ ७५ ॥
ततो गच्छेत राजेन्द्र मिश्रकं तीर्थमुत्तमम् ।तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ ७६ ॥
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् ।सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ ७७ ॥
ततो व्यासवनं गच्छेन्नियतो नियताशनः ।मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ७८ ॥
गत्वा मधुवटीं चापि देव्यास्तीर्थं नरः शुचिः ।तत्र स्नात्वार्चयेद्देवान्पितॄंश्च प्रयतः शुचिः ।स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ॥ ७९ ॥
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ।स्नाति वै नियताहारः सर्वपापैः प्रमुच्यते ॥ ८० ॥
ततो व्यासस्थली नाम यत्र व्यासेन धीमता ।पुत्रशोकाभितप्तेन देहत्यागार्थनिश्चयः ॥ ८१ ॥
कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तदा ।अभिगम्य स्थलीं तस्य गोसहस्रफलं लभेत् ॥ ८२ ॥
किंदत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ।गच्छेत परमां सिद्धिमृणैर्मुक्तः कुरूद्वह ॥ ८३ ॥
अहश्च सुदिनं चैव द्वे तीर्थे च सुदुर्लभे ।तयोः स्नात्वा नरव्याघ्र सूर्यलोकमवाप्नुयात् ॥ ८४ ॥
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् ।तत्र गङ्गाह्रदे स्नात्वा समभ्यर्च्य च मानवः ।शूलपाणिं महादेवमश्वमेधफलं लभेत् ॥ ८५ ॥
देवतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ।अथ वामनकं गच्छेत्त्रिषु लोकेषु विश्रुतम् ॥ ८६ ॥
तत्र विष्णुपदे स्नात्वा अर्चयित्वा च वामनम् ।सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥ ८७ ॥
कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः ।पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ।तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ॥ ८८ ॥
अमराणां ह्रदे स्नात्वा अमरेषु नराधिप ।अमराणां प्रभावेन स्वर्गलोके महीयते ॥ ८९ ॥
शालिहोत्रस्य राजेन्द्र शालिशूर्पे यथाविधि ।स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ ९० ॥
श्रीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम ।तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ॥ ९१ ॥
ततो नैमिषकुञ्जं च समासाद्य कुरूद्वह ।ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ।तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा ॥ ९२ ॥
ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम ।ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ॥ ९३ ॥
तस्मिन्कुञ्जे नरः स्नात्वा गोसहस्रफलं लभेत् ।कन्यातीर्थे नरः स्नात्वा अग्निष्टोमफलं लभेत् ॥ ९४ ॥
ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् ।तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ।ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ॥ ९५ ॥
ततो गच्छेन्नरश्रेष्ठ सोमतीर्थमनुत्तमम् ।तत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ॥ ९६ ॥
सप्तसारस्वतं तीर्थं ततो गच्छेन्नराधिप ।यत्र मङ्कणकः सिद्धो महर्षिर्लोकविश्रुतः ॥ ९७ ॥
पुरा मङ्कणको राजन्कुशाग्रेणेति नः श्रुतम् ।क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥ ९८ ॥
स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः ।प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः ॥ ९९ ॥
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ १०० ॥
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः ।विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ।नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ १०१ ॥
ततः प्रनृत्तमासाद्य हर्षाविष्टेन चेतसा ।सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत ॥ १०२ ॥
अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् ।हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव ॥ १०३ ॥
ऋषिरुवाच ।किं न पश्यसि मे देव कराच्छाकरसं स्रुतम् ।यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ॥ १०४ ॥
पुलस्त्य उवाच ।तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ।अहं वै विस्मयं विप्र न गच्छामीति पश्य माम् ॥ १०५ ॥
एवमुक्त्वा नरश्रेष्ठ महादेवेन धीमता ।अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ ॥ १०६ ॥
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् ।तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥ १०७ ॥
नान्यं देवमहं मन्ये रुद्रात्परतरं महत् ।सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ १०८ ॥
त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् ।त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥ १०९ ॥
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥ ११० ॥
सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह ।त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ।एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥ १११ ॥
ऋषिरुवाच ।त्वत्प्रसादान्महादेव तपो मे न क्षरेत वै ॥ ११२ ॥
पुलस्त्य उवाच ।ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ।तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥ ११३ ॥
आश्रमे चेह वत्स्यामि त्वया सार्धं महामुने ।सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् ॥ ११४ ॥
न तेषां दुर्लभं किंचिदिह लोके परत्र च ।सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥ ११५ ॥
ततस्त्वौशनसं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ११६ ॥
कार्त्तिकेयश्च भगवांस्त्रिसंध्यं किल भारत ।सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ॥ ११७ ॥
कपालमोचनं तीर्थं सर्वपापप्रमोचनम् ।तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ ११८ ॥
अग्नितीर्थं ततो गच्छेत्तत्र स्नात्वा नरर्षभ ।अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ ११९ ॥
विश्वामित्रस्य तत्रैव तीर्थं भरतसत्तम ।तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ॥ १२० ॥
ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ।पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ १२१ ॥
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ।पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ १२२ ॥
अज्ञानाज्ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ।यत्किंचिदशुभं कर्म कृतं मानुषबुद्धिना ॥ १२३ ॥
तत्सर्वं नश्यते तस्य स्नातमात्रस्य भारत ।अश्वमेधफलं चापि स्वर्गलोकं च गच्छति ॥ १२४ ॥
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥ १२५ ॥
उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ।पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥ १२६ ॥
गीतं सनत्कुमारेण व्यासेन च महात्मना ।वेदे च नियतं राजनभिगच्छेत्पृथूदकम् ॥ १२७ ॥
पृथूदकात्पुण्यतमं नान्यत्तीर्थं नरोत्तम ।एतन्मेध्यं पवित्रं च पावनं च न संशयः ॥ १२८ ॥
तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः ।पृथूदके नरश्रेष्ठ प्राहुरेवं मनीषिणः ॥ १२९ ॥
मधुस्रवं च तत्रैव तीर्थं भरतसत्तम ।तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ १३० ॥
ततो गच्छेन्नरश्रेष्ठ तीर्थं देव्या यथाक्रमम् ।सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ॥ १३१ ॥
त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ।अग्निष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ १३२ ॥
आसप्तमं कुलं चैव पुनाति भरतर्षभ ।अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ।विप्राणामनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥ १३३ ॥
व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ।क्रियामन्त्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः ॥ १३४ ॥
क्रियामन्त्रविहीनोऽपि तत्र स्नात्वा नरर्षभ ।चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातने ॥ १३५ ॥
समुद्राश्चापि चत्वारः समानीताश्च दर्भिणा ।येषु स्नातो नरव्याघ्र न दुर्गतिमवाप्नुयात् ।फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥ १३६ ॥
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ।साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥ १३७ ॥
उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत् ।दानं वाप्युपवासो वा सहस्रगुणितं भवेत् ॥ १३८ ॥
ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।सर्वपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ १३९ ॥
विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः ।प्रतिग्रहकृतैर्दोषैः सर्वैः स परिमुच्यते ॥ १४० ॥
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः ।पुण्येन महता युक्तः सतां लोके महीयते ॥ १४१ ॥
यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः ।तमर्चयित्वा देवेशं गमनादेव सिध्यति ॥ १४२ ॥
औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा ।यत्र ब्रह्मादिभिर्देवैरृषिभिश्च तपोधनैः ।सेनापत्येन देवानामभिषिक्तो गुहस्तदा ॥ १४३ ॥
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ।कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ।सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥ १४४ ॥
स्वर्गद्वारं ततो गच्छेन्नियतो नियताशनः ।स्वर्गलोकमवाप्नोति ब्रह्मलोकं च गच्छति ॥ १४५ ॥
ततो गच्छेदनरकं तीर्थसेवी नराधिप ।तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ १४६ ॥
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते ।अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ॥ १४७ ॥
सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह ।अभिगम्य च तां देवीं न दुर्गतिमवाप्नुयात् ॥ १४८ ॥
तत्रैव च महाराज विश्वेश्वरमुमापतिम् ।अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥ १४९ ॥
नारायणं चाभिगम्य पद्मनाभमरिंदमम् ।शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥ १५० ॥
तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ ।सर्वदुःखैः परित्यक्तो द्योतते शशिवत्सदा ॥ १५१ ॥
ततः स्वस्तिपुरं गच्छेत्तीर्थसेवी नराधिप ।पावनं तीर्थमासाद्य तर्पयेत्पितृदेवताः ।अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १५२ ॥
गङ्गाह्रदश्च तत्रैव कूपश्च भरतर्षभ ।तिस्रः कोट्यस्तु तीर्थानां तस्मिन्कूपे महीपते ।तत्र स्नात्वा नरो राजन्स्वर्गलोकं प्रपद्यते ॥ १५३ ॥
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ।गाणपत्यमवाप्नोति कुलं चोद्धरते स्वकम् ॥ १५४ ॥
ततः स्थाणुवटं गच्छेत्त्रिषु लोकेषु विश्रुतम् ।तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकमवाप्नुयात् ॥ १५५ ॥
बदरीपाचनं गच्छेद्वसिष्ठस्याश्रमं ततः ।बदरं भक्षयेत्तत्र त्रिरात्रोपोषितो नरः ॥ १५६ ॥
सम्यग्द्वादश वर्षाणि बदरान्भक्षयेत्तु यः ।त्रिरात्रोपोषितश्चैव भवेत्तुल्यो नराधिप ॥ १५७ ॥
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ।अहोरात्रोपवासेन शक्रलोके महीयते ॥ १५८ ॥
एकरात्रं समासाद्य एकरात्रोषितो नरः ।नियतः सत्यवादी च ब्रह्मलोके महीयते ॥ १५९ ॥
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ।आदित्यस्याश्रमो यत्र तेजोराशेर्महात्मनः ॥ १६० ॥
तस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ।आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥ १६१ ॥
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ।सोमलोकमवाप्नोति नरो नास्त्यत्र संशयः ॥ १६२ ॥
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ।तीर्थं पुण्यतमं राजन्पावनं लोकविश्रुतम् ॥ १६३ ॥
यत्र सारस्वतो राजन्सोऽङ्गिरास्तपसो निधिः ।तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ।सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ १६४ ॥
ततः कन्याश्रमं गच्छेन्नियतो ब्रह्मचर्यवान् ।त्रिरात्रोपोषितो राजन्नुपवासपरायणः ।लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥ १६५ ॥
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीमपि ।यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।मासि मासि समायान्ति पुण्येन महतान्विताः ॥ १६६ ॥
संनिहित्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ।अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ १६७ ॥
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ।नद्यो नदास्तडागाश्च सर्वप्रस्रवणानि च ॥ १६८ ॥
उदपानाश्च वप्राश्च पुण्यान्यायतनानि च ।मासि मासि समायान्ति संनिहित्यां न संशयः ॥ १६९ ॥
यत्किंचिद्दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा ।स्नातमात्रस्य तत्सर्वं नश्यते नात्र संशयः ।पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥ १७० ॥
अभिवाद्य ततो यक्षं द्वारपालमरन्तुकम् ।कोटिरूपमुपस्पृश्य लभेद्बहु सुवर्णकम् ॥ १७१ ॥
गङ्गाह्रदश्च तत्रैव तीर्थं भरतसत्तम ।तत्र स्नातस्तु धर्मज्ञ ब्रह्मचारी समाहितः ।राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥ १७२ ॥
पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् ।त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ १७३ ॥
पांसवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः ।अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ १७४ ॥
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ।ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ १७५ ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।अप्येकां वाचमुत्सृज्य सर्वपापैः प्रमुच्यते ॥ १७६ ॥
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ।तदावसन्ति ये राजन्न ते शोच्याः कथंचन ॥ १७७ ॥
तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानां च मचक्रुकस्य ।एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते ॥ १७८ ॥
« »