Click on words to see what they mean.

वैशंपायन उवाच ।धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः ।न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ॥ १ ॥
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ २ ॥
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः ।विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥ ३ ॥
यथा च वेदान्सावित्री याज्ञसेनी तथा सती ।न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ ४ ॥
प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः ।आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥ ५ ॥
उवाच च महात्मानं धर्मराजं युधिष्ठिरम् ।ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ॥ ६ ॥
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥ ७ ॥
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥ ८ ॥
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि ॥ ९ ॥
प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः ।किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥ १० ॥
नारद उवाच ।शृणु राजन्नवहितो यथा भीष्मेण भारत ।पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥ ११ ॥
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः ।पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥ १२ ॥
शुभे देशे महाराज पुण्ये देवर्षिसेविते ।गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ १३ ॥
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ॥ १४ ॥
कस्यचित्त्वथ कालस्य जपन्नेव महातपाः ।ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ॥ १५ ॥
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया ।प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ॥ १६ ॥
उपस्थितं महाराज पूजयामास भारत ।भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ १७ ॥
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः ।नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ १८ ॥
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत ।तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ॥ १९ ॥
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः ।वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ २० ॥
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् ।भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ २१ ॥
पुलस्त्य उवाच ।अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ॥ २२ ॥
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ ।तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ॥ २३ ॥
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते ।यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ ॥ २४ ॥
भीष्म उवाच ।प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥ २५ ॥
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर ।वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ॥ २६ ॥
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया ॥ २७ ॥
प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम ।किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥ २८ ॥
पुलस्त्य उवाच ।हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् ।तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥ २९ ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ३० ॥
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः ।अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ ३१ ॥
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः ।विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥ ३२ ॥
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ३३ ॥
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् ।फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ ३४ ॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।बहूपकरणा यज्ञा नानासंभारविस्तराः ॥ ३५ ॥
प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् ।नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥ ३६ ॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर ।तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ॥ ३७ ॥
ऋषीणां परमं गुह्यमिदं भरतसत्तम ।तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ ३८ ॥
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ ३९ ॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ ४० ॥
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् ।पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥ ४१ ॥
दश कोटिसहस्राणि तीर्थानां वै महीपते ।सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन ॥ ४२ ॥
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ॥ ४३ ॥
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ।दिव्ययोगा महाराज पुण्येन महतान्विताः ॥ ४४ ॥
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः ।पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ ४५ ॥
तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः ।उवास परमप्रीतो देवदानवसंमतः ॥ ४६ ॥
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः ।सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः ॥ ४७ ॥
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ।अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ ४८ ॥
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥ ४९ ॥
शाकमूलफलैर्वापि येन वर्तयते स्वयम् ।तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ।तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥ ५० ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ।न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥ ५१ ॥
कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् ।फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥ ५२ ॥
सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः ।उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ।प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥ ५३ ॥
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ।पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥ ५४ ॥
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ ५५ ॥
उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः ।क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥ ५६ ॥
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ।कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥ ५७ ॥
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः ।दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥ ५८ ॥
उष्य द्वादशरात्रं तु नियतो नियताशनः ।प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ॥ ५९ ॥
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् ।अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ६० ॥
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः ।न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥ ६१ ॥
जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् ।न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ॥ ६२ ॥
अगस्त्यसर आसाद्य पितृदेवार्चने रतः ।त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥ ६३ ॥
शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् ।कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ॥ ६४ ॥
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ ।यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ॥ ६५ ॥
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः ।सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ६६ ॥
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् ।हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥ ६७ ॥
महाकालं ततो गच्छेन्नियतो नियताशनः ।कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥ ६८ ॥
ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः ।नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥ ६९ ॥
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥ ७० ॥
नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् ।तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥ ७१ ॥
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ।अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥ ७२ ॥
चर्मण्वतीं समासाद्य नियतो नियताशनः ।रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ॥ ७३ ॥
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ।पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ॥ ७४ ॥
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ ७५ ॥
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः ।कपिलानां नरव्याघ्र शतस्य फलमश्नुते ॥ ७६ ॥
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ।यत्र संनिहितो नित्यं स्वयमेव हुताशनः ।देवतानां मुखं वीर अनलोऽनिलसारथिः ॥ ७७ ॥
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः ।अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥ ७८ ॥
ततो गत्वा सरस्वत्याः सागरस्य च संगमे ।गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ।दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ॥ ७९ ॥
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः ।प्रभासते यथा सोमो अश्वमेधं च विन्दति ॥ ८० ॥
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम ।विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ ८१ ॥
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् ।ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ॥ ८२ ॥
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः ।अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ॥ ८३ ॥
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन ।महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ॥ ८४ ॥
सागरस्य च सिन्धोश्च संगमं प्राप्य भारत ।तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥ ८५ ॥
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥ ८६ ॥
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ ८७ ॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ।दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ॥ ८८ ॥
यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ।तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ।जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ ८९ ॥
दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता ।तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥ ९० ॥
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ।पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥ ९१ ॥
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् ।गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥ ९२ ॥
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः ।तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥ ९३ ॥
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ ।तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥ ९४ ॥
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् ।तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् ॥ ९५ ॥
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः ।ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥ ९६ ॥
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ॥ ९७ ॥
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् ।तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ॥ ९८ ॥
अथ पञ्चनदं गत्वा नियतो नियताशनः ।पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥ ९९ ॥
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् ।तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥ १०० ॥
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः ।गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥ १०१ ॥
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ।पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ १०२ ॥
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ १०३ ॥
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् ।सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ १०४ ॥
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ।पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ॥ १०५ ॥
चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् ।पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ १०६ ॥
गवां शतसहस्रेण राजसूयशतेन च ।अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ॥ १०७ ॥
ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् ।अभिगम्य महादेवमश्वमेधफलं लभेत् ॥ १०८ ॥
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ।एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥ १०९ ॥
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् ।प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ ११० ॥
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् ।देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ १११ ॥
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ।सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ ११२ ॥
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् ।तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ॥ ११३ ॥
यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् ।पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ॥ ११४ ॥
अर्धयोजनविस्तारां पञ्चयोजनमायताम् ।एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ॥ ११५ ॥
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ।यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ।दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ॥ ११६ ॥
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ।राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ११७ ॥
ततो विनशनं गच्छेन्नियतो नियताशनः ।गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ।चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥ ११८ ॥
स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् ।शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ११९ ॥
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ।शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ।शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ १२० ॥
सरस्वत्यां महाराज अनु संवत्सरं हि ते ।स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥ १२१ ॥
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥ १२२ ॥
कुमारकोटिमासाद्य नियतः कुरुनन्दन ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।गवामयमवाप्नोति कुलं चैव समुद्धरेत् ॥ १२३ ॥
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ।पुरा यत्र महाराज ऋषिकोटिः समाहिता ।प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥ १२४ ॥
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् ।एवं संप्रस्थिता राजन्नृषयः किल भारत ॥ १२५ ॥
ततो योगेश्वरेणापि योगमास्थाय भूपते ।तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥ १२६ ॥
सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता ।मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥ १२७ ॥
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् ।भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ।अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ॥ १२८ ॥
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ।अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ १२९ ॥
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ।सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ॥ १३० ॥
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥ १३१ ॥
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् ।सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ १३२ ॥
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ।सत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥ १३३ ॥
« »