Click on words to see what they mean.

जनमेजय उवाच ।भगवन्काम्यकात्पार्थे गते मे प्रपितामहे ।पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् ॥ १ ॥
स हि तेषां महेष्वासो गतिरासीदनीकजित् ।आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥ २ ॥
तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना ।विनाभूता वने वीराः कथमासन्पितामहाः ॥ ३ ॥
वैशंपायन उवाच ।गते तु काम्यकात्तात पाण्डवे सव्यसाचिनि ।बभूवुः कौरवेयास्ते दुःखशोकपरायणाः ॥ ४ ॥
आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः ।अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥ ५ ॥
वनं च तदभूत्तेन हीनमक्लिष्टकर्मणा ।कुबेरेण यथा हीनं वनं चैत्ररथं तथा ॥ ६ ॥
तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय ।मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥ ७ ॥
ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः ।निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥ ८ ॥
नित्यं हि पुरुषव्याघ्रा वन्याहारमरिंदमाः ।विप्रसृत्य समाहृत्य ब्राह्मणेभ्यो न्यवेदयन् ॥ ९ ॥
एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः ।अहृष्टमनसः सर्वे गते राजन्धनंजये ॥ १० ॥
अथ विप्रोषितं वीरं पाञ्चाली मध्यमं पतिम् ।स्मरन्ती पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ ११ ॥
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।तमृते पाण्डवश्रेष्ठं वनं न प्रतिभाति मे ।शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥ १२ ॥
बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् ।न तथा रमणीयं मे तमृते सव्यसाचिनम् ॥ १३ ॥
नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम् ।तमृते पुण्डरीकाक्षं काम्यकं नातिभाति मे ॥ १४ ॥
यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः ।न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् ॥ १५ ॥
तथा लालप्यमानां तां निशम्य परवीरहा ।भीमसेनो महाराज द्रौपदीमिदमब्रवीत् ॥ १६ ॥
मनःप्रीतिकरं भद्रे यद्ब्रवीषि सुमध्यमे ।तन्मे प्रीणाति हृदयममृतप्राशनोपमम् ॥ १७ ॥
यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ ।मौर्वीकृतकिणौ वृत्तौ खड्गायुधगदाधरौ ॥ १८ ॥
निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ ।तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् ॥ १९ ॥
यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा ।सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥ २० ॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥ २१ ॥
तमृते फल्गुनं वीरं न लभे काम्यके धृतिम् ।शून्यामिव च पश्यामि तत्र तत्र महीमिमाम् ॥ २२ ॥
नकुल उवाच ।य उदीचीं दिशं गत्वा जित्वा युधि महाबलान् ।गन्धर्वमुख्याञ्शतशो हयाँल्लेभे स वासविः ॥ २३ ॥
राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः ।प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥ २४ ॥
तमृते भीमधन्वानं भीमादवरजं वने ।कामये काम्यके वासं नेदानीममरोपमम् ॥ २५ ॥
सहदेव उवाच ।यो धनानि च कन्याश्च युधि जित्वा महारथान् ।आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥ २६ ॥
यः समेतान्मृधे जित्वा यादवानमितद्युतिः ।सुभद्रामाजहारैको वासुदेवस्य संमते ॥ २७ ॥
तस्य जिष्णोर्बृसीं दृष्ट्वा शून्यामुपनिवेशने ।हृदयं मे महाराज न शाम्यति कदाचन ॥ २८ ॥
वनादस्माद्विवासं तु रोचयेऽहमरिंदम ।न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥ २९ ॥
« »