Click on words to see what they mean.

बृहदश्व उवाच ।स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः ।पुरादल्पपरीवारो जगाम निषधान्प्रति ॥ १ ॥
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः ।पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥ २ ॥
स कम्पयन्निव महीं त्वरमाणो महीपतिः ।प्रविवेशातिसंरब्धस्तरसैव महामनाः ॥ ३ ॥
ततः पुष्करमासाद्य वीरसेनसुतो नलः ।उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ॥ ४ ॥
दमयन्ती च यच्चान्यन्मया वसु समर्जितम् ।एष वै मम संन्यासस्तव राज्यं तु पुष्कर ॥ ५ ॥
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥ ६ ॥
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु ।प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ॥ ७ ॥
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् ।द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥ ८ ॥
वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा ।येन तेनाप्युपायेन वृद्धानामिति शासनम् ॥ ९ ॥
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर ।कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ॥ १० ॥
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव ।ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ॥ ११ ॥
दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध ।दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ।दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण ॥ १२ ॥
धनेनानेन वैदर्भी जितेन समलंकृता ।मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥ १३ ॥
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध ।देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ॥ १४ ॥
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ॥ १५ ॥
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः ।इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ॥ १६ ॥
स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः ।पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ॥ १७ ॥
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।एकपाणेन भद्रं ते नलेन स पराजितः ।सरत्नकोशनिचयः प्राणेन पणितोऽपि च ॥ १८ ॥
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ।मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ॥ १९ ॥
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् ।तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥ २० ॥
न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा ।कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे ।नाहं परकृतं दोषं त्वय्याधास्ये कथंचन ॥ २१ ॥
यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते ।तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥ २२ ॥
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति ।पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः ॥ २३ ॥
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः ।स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ॥ २४ ॥
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् ।पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥ २५ ॥
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥ २६ ॥
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः ।प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ॥ २७ ॥
महत्या सेनया राजन्विनीतैः परिचारकैः ।भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥ २८ ॥
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ।प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ॥ २९ ॥
« »