Click on words to see what they mean.

दमयन्त्युवाच ।न मामर्हसि कल्याण पापेन परिशङ्कितुम् ।मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥ १ ॥
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः ।वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥ २ ॥
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥ ३ ॥
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते ।उपायोऽयं मया दृष्टो नैषधानयने तव ॥ ४ ॥
त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते ।समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥ ५ ॥
तथा चेमौ महीपाल भजेऽहं चरणौ तव ।यथा नासत्कृतं किंचिन्मनसापि चराम्यहम् ॥ ६ ॥
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ।एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ ७ ॥
तथा चरति तिग्मांशुः परेण भुवनं सदा ।स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ ८ ॥
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् ।स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ ९ ॥
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै ।विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ॥ १० ॥
एवमुक्ते ततो वायुरन्तरिक्षादभाषत ।नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥ ११ ॥
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ।साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥ १२ ॥
उपायो विहितश्चायं त्वदर्थमतुलोऽनया ।न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ॥ १३ ॥
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते ।नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ॥ १४ ॥
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह ।देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥ १५ ॥
तदद्भुततमं दृष्ट्वा नलो राजाथ भारत ।दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ॥ १६ ॥
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः ।संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ॥ १७ ॥
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा ।प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥ १८ ॥
भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥ १९ ॥
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना ।परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ २० ॥
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता ।सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ॥ २१ ॥
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च ।भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥ २२ ॥
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् ।दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ॥ २३ ॥
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥ २४ ॥
स चतुर्थे ततो वर्षे संगम्य सह भार्यया ।सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥ २५ ॥
दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् ।अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥ २६ ॥
सैवं समेत्य व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा ।रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन ॥ २७ ॥
« »