Click on words to see what they mean.

बृहदश्व उवाच ।सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः ।आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥ १ ॥
दमयन्ती ततो भूयः प्रेषयामास केशिनीम् ।मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ २ ॥
परीक्षितो मे बहुशो बाहुको नलशङ्कया ।रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ॥ ३ ॥
स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि ।विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् ॥ ४ ॥
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् ।दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ॥ ५ ॥
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ ।नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ॥ ६ ॥
तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा ।तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥ ७ ॥
ततः काषायवसना जटिला मलपङ्किनी ।दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥ ८ ॥
दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक ।सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ॥ ९ ॥
अनागसं प्रियां भार्यां विजने श्रममोहिताम् ।अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ॥ १० ॥
किं नु तस्य मया कार्यमपराद्धं महीपतेः ।यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ॥ ११ ॥
साक्षाद्देवानपाहाय वृतो यः स मया पुरा ।अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ॥ १२ ॥
अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् ।भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ॥ १३ ॥
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम ।शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु ॥ १४ ॥
अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् ।परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ॥ १५ ॥
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥ १६ ॥
त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा ।वनस्थया दुःखितया शोचन्त्या मां विवाससम् ॥ १७ ॥
स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः ।त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः ॥ १८ ॥
मम च व्यवसायेन तपसा चैव निर्जितः ।दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ १९ ॥
विमुच्य मां गतः पापः स ततोऽहमिहागतः ।त्वदर्थं विपुलश्रोणि न हि मेऽन्यत्प्रयोजनम् ॥ २० ॥
कथं नु नारी भर्तारमनुरक्तमनुव्रतम् ।उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥ २१ ॥
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् ।भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥ २२ ॥
स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः ।श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ॥ २३ ॥
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥ २४ ॥
« »