Click on words to see what they mean.

बृहदश्व उवाच ।दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा ।शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥ १ ॥
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥ २ ॥
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि ।तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥ ३ ॥
न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि ।याचते न जलं देयं सम्यगत्वरमाणया ॥ ४ ॥
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय ।यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥ ५ ॥
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी ।निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ॥ ६ ॥
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ॥ ७ ॥
केशिन्युवाच ।दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् ।दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥ ८ ॥
ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित् ।तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ।संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥ ९ ॥
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥ १० ॥
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः ।स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ॥ ११ ॥
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।तृणमुष्टिं समादाय आविध्यैनं समादधत् ॥ १२ ॥
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ॥ १३ ॥
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥ १४ ॥
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥ १५ ॥
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः ।मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥ १६ ॥
भूय एव सुगन्धीनि हृषितानि भवन्ति च ।एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ॥ १७ ॥
बृहदश्व उवाच ।दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥ १८ ॥
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् ।केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ॥ १९ ॥
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।महानसाच्छृतं मांसं समादायैहि भामिनि ॥ २० ॥
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च ।अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ।दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥ २१ ॥
सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा ।प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ॥ २२ ॥
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः ।मिथुनं प्रेषयामास केशिन्या सह भारत ॥ २३ ॥
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ॥ २४ ॥
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह ॥ २५ ॥
नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥ २६ ॥
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः ।ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥ २७ ॥
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः ।वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ॥ २८ ॥
« »