Click on words to see what they mean.

दमयन्त्युवाच ।मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते ।नरवीरस्य वै तस्य नलस्यानयने यत ॥ १ ॥
बृहदश्व उवाच ।दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता ।बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत् ॥ २ ॥
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा ।हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥ ३ ॥
ततो भीमं महाराज भार्या वचनमब्रवीत् ।दमयन्ती तव सुता भर्तारमनुशोचति ॥ ४ ॥
अपकृष्य च लज्जां मां स्वयमुक्तवती नृप ।प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ॥ ५ ॥
तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः ।प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥ ६ ॥
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः ।दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ॥ ७ ॥
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः ।ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ॥ ८ ॥
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम ।उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ ९ ॥
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी ।दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥ १० ॥
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव ।प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ॥ ११ ॥
एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि ।वायुना धूयमानो हि वनं दहति पावकः ॥ १२ ॥
भर्तव्या रक्षणीया च पत्नी हि पतिना सदा ।तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥ १३ ॥
ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा ।संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥ १४ ॥
स कुरुष्व महेष्वास दयां मयि नरर्षभ ।आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ॥ १५ ॥
एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन ।स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ॥ १६ ॥
यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः ।तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ॥ १७ ॥
यथा च वो न जानीयाच्चरतो भीमशासनात् ।पुनरागमनं चैव तथा कार्यमतन्द्रितैः ॥ १८ ॥
यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् ।यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥ १९ ॥
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् ।नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ॥ २० ॥
ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् ।अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ॥ २१ ॥
तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते ।श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥ २२ ॥
« »