Click on words to see what they mean.

बृहदश्व उवाच ।ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः ।पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन ॥ १ ॥
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत् ।द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥ २ ॥
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया ।दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥ ३ ॥
पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना ।व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् ॥ ४ ॥
ततः पुष्करमालोक्य नलः परममन्युमान् ।उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः ॥ ५ ॥
एकवासा असंवीतः सुहृच्छोकविवर्धनः ।निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् ॥ ६ ॥
दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतोऽन्वियात् ।स तया बाह्यतः सार्धं त्रिरात्रं नैषधोऽवसत् ॥ ७ ॥
पुष्करस्तु महाराज घोषयामास वै पुरे ।नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥ ८ ॥
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च ।पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ॥ ९ ॥
स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः ।त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥ १० ॥
क्षुधा संपीड्यमानस्तु नलो बहुतिथेऽहनि ।अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ॥ ११ ॥
स चिन्तयामास तदा निषधाधिपतिर्बली ।अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति ॥ १२ ॥
ततस्तानन्तरीयेण वाससा समवास्तृणोत् ।तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा ॥ १३ ॥
उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् ।दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥ १४ ॥
वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः ।आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥ १५ ॥
तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् ।पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् ॥ १६ ॥
येषां प्रकोपादैश्वर्यात्प्रच्युतोऽहमनिन्दिते ।प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः ॥ १७ ॥
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः ।त इमे शकुना भूत्वा वासोऽप्यपहरन्ति मे ॥ १८ ॥
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः ।भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥ १९ ॥
एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् ।अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥ २० ॥
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा ।आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ॥ २१ ॥
एष पन्था विदर्भाणामयं गच्छति कोसलान् ।अतः परं च देशोऽयं दक्षिणे दक्षिणापथः ॥ २२ ॥
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता ।उवाच दमयन्ती तं नैषधं करुणं वचः ॥ २३ ॥
उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः ।तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः ॥ २४ ॥
हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् ।कथमुत्सृज्य गच्छेयमहं त्वां विजने वने ॥ २५ ॥
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् ।वने घोरे महाराज नाशयिष्यामि ते क्लमम् ॥ २६ ॥
न च भार्यासमं किंचिद्विद्यते भिषजां मतम् ।औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ॥ २७ ॥
नल उवाच ।एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे ।नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ २८ ॥
न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे ।त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते ॥ २९ ॥
दमयन्त्युवाच ।यदि मां त्वं महाराज न विहातुमिहेच्छसि ।तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥ ३० ॥
अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि ।चेतसा त्वपकृष्टेन मां त्यजेथा महापते ॥ ३१ ॥
पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम ।अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ ॥ ३२ ॥
यदि चायमभिप्रायस्तव राजन्व्रजेदिति ।सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥ ३३ ॥
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद ।तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥ ३४ ॥
« »