Click on words to see what they mean.

बृहदश्व उवाच ।दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् ।उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ॥ १ ॥
भयशोकसमाविष्टा राजन्भीमसुता ततः ।चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥ २ ॥
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥ ३ ॥
बृहत्सेने व्रजामात्यानानाय्य नलशासनात् ।आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥ ४ ॥
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् ।अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥ ५ ॥
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः ।न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥ ६ ॥
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा ।दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥ ७ ॥
निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् ।नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥ ८ ॥
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥ ९ ॥
बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् ।वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥ १० ॥
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा ।उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥ ११ ॥
जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि ।तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥ १२ ॥
यथा यथा हि नृपतिः पुष्करेणेह जीयते ।तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते ॥ १३ ॥
यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः ।तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥ १४ ॥
सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च ।नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः ॥ १५ ॥
यत्र मे वचनं राजा नाभिनन्दति मोहितः ।शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः ।न हि मे शुध्यते भावः कदाचिद्विनशेदिति ॥ १६ ॥
नलस्य दयितानश्वान्योजयित्वा महाजवान् ।इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ॥ १७ ॥
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा ॥ १८ ॥
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः ।न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥ १९ ॥
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ।ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥ २० ॥
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥ २१ ॥
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् ।अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥ २२ ॥
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः ।भृतिं चोपययौ तस्य सारथ्येन महीपते ॥ २३ ॥
« »